________________
श्रीदानोपदेशमाला (गा. ६.) मानयोर्विप्रयोगोऽस्तु मित्रयोर्मत्कृतो मिथः । सेति संचिन्त्य नो पत्येऽशोकस्योचे कुचेष्टितम् ॥ ४०३ ॥ जानन्नसारं संसारं, ससंवेगोऽथ सागरः । न्ययोजयन्निजामृद्धिं, दीनानाथान्धदुःखिषु ॥ ४०४ ॥ कियत्यपि गते काले सागरः प्रियदर्शना । अशोकश्चायुरापूर्य, कालधर्ममुपाययुः ॥ ४०५ ।। अस्यैव जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे । गङ्गासिन्धुमहानद्योरन्तराले विशालके ॥ ४०६ ।। अवशिष्टेऽष्टमे भागे तृतीयारस्य युग्मिनौ । अल्पपुण्ये समुत्पन्ने सागरप्रियदर्शने ॥ ४०७॥ युग्मम् ॥ पल्यदशमांशायुष्कौ धनुर्नवशतोन्नतौ । स्वर्णप्रियङ्गवर्णाङ्गौ युग्मिनौ तौ विरेजतुः ॥ ४०८ ॥ तत्रैवाभूदशोकोऽपि, शुभ्रवर्णश्चतूरदः । गजः प्राग्जन्मविहितमाययेन्द्रकरीन्द्रवत् ॥ ४०९ ॥ अन्यदा भ्रमता तेन, कलभेन समं ततः । स युग्मधर्मा प्राग्जन्म मित्रं हर्षाददृश्यत ॥ ४१० ॥ तद्दर्शनेन संजातप्रीतिना तेन दन्तिना । स युग्मी स्कन्ध आरोपि सुरेभेनेव वासवः ॥ ४११॥ कुन्देन्दुसोदरच्छायमारूढोऽयं मतङ्गजम् । इतीव युग्मिनोऽस्याह्वां चक्रुर्विमलवाहनम् ॥ ४१२ ॥ जातिस्मृतिवशाज्ज्ञातनीतिः कुलकृदादिमः । सर्वेषां युग्मिनां मान्योऽभूदिन्द्र इव नाकिनाम् ॥ ४१३ ॥ अथाभवन् कालवशान्निष्प्रभावाः सुरद्रुमाः । विवदन्ते तदर्थं च ममामी इति युग्मिनः ॥ ४१४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org