________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
यत्सागरो मन्त्रयते धनदत्तस्य भार्यया ।
तद् वेत्सि साह नाहं चेत्त्वं जानास्येव तत्सखा ॥ ३९२ ॥ स धूर्त्तः प्राह वेद्येव, किन्तु वक्तुं न शक्यते ।
स "ऋज्युवाच तत्किं भो, इत्युक्तः प्रोक्तवान् शठः ॥ ३९३ ॥ यथा स रज्यते तस्यां तथाहं त्वयि वर्णिनि ! ।
रहस्यमिति विज्ञाय, त्वं रमस्व मया समम् ॥ ३९४॥ कल्पान्तज्वलनज्वालाकरालं दधती मुखम् । सावोचत्तव जिह्वेति वदतः स्फुटिता न किम् ॥ ३९५ ॥ सा तं निर्वासयामासाक्रुश्याक्रुश्य स्ववेश्मतः । ततो म्लानाननः सोऽपि, सागरस्यान्तिकं ययौ ॥ ३९६ ॥ तेनाभाणि सखे! किं त्वं, सोद्विग्न इव दृश्यसे । उच्छ्वासानुद्वहन् दीर्घान् सकष्ट इव सोऽप्यवक् ॥ ३९७॥ अद्य मित्रशिरोरत्न ! भवतो भवने गतः 1 प्रियदर्शनया रुद्धो राक्षस्येव रिरंसया ॥ ३९८ ॥ तद्रागजालादात्मानं, मोचयित्वा कथंचन ।
तिमिङ्गल इवोत्प्लुत्य, सागरं प्राप्तवानहम् ॥ ३९९॥ इदं मित्र ! निजोद्वेगकारणं ते निवेदितम् । तच्छ्रुत्वा सागरोऽप्येवं चिन्तयामास मानसे ॥ ४०० ॥ सुखेन ज्ञायते लोकैः, प्रमाणं वार्द्धिवारिणः । न तु स्त्रीणां चरित्राणि ज्ञायन्ते पण्डितैरपि ॥ ४०१ ॥ को दण्डः क्रियतेऽमुष्या, यतोऽवध्याः पुरन्ध्रयः । ध्यात्वेति सागरस्तस्यां निःस्नेहः समजायत ॥ ४०२ ॥
* ऋज्वी+उवाच...ऋज्व्य् + उवाच... व्योः १ । ३ । २३ इतिसूत्रेण... मतान्तरे कश्चित् (विश्रान्तविद्याधरादिः) तु स्वरजयोरनादिस्थयोर्यकारवकारयोर्घोषवत्यवर्णादन्यतोऽपि लोपमिच्छति तन्मते एष प्रयोगः सिद्धः ।
Jain Education International
४१
For Personal & Private Use Only
www.jainelibrary.org