________________
४०
श्रीदानोपदेशमाला (गा. ६.) योगीव परमात्मानं स स्मरन् प्रियदर्शनाम् । सागरोऽशोकदत्तेन सहितः स्वगृहं गतः ॥ ३८० ॥ तं सर्वमपि वृत्तान्तं श्रुत्वा पुत्रस्य चन्दनः । दध्यौ न वणिजामीहक्, युज्यते विक्रमक्रमः ॥ ३८१ ॥ आकार्य पुत्रं श्रेष्ठ्यूचे वत्स! विज्ञोऽसि यद्यपि । तथापि ज्ञाप्यसे किंचिच्छिक्षादा गुरवो यतः ॥ ३८२ ॥ पौरुषं भवता चक्रे, यदुद्भटभटोचितम् ।। तद्वणिक्षु न शोभायै न्यस्तं रत्नं त्रपुष्विव ॥ ३८३ ॥ या तवाशोकदत्तस्य कुवयस्यस्य संगतिः । सानय यथा वह्निज्वाला काननशाखिनाम् ॥ ३८४ ॥ यदादिशति तातो मां, तत्कर्त्तव्यं तथैव हि । इत्युक्त्वा प्राञ्जलिः प्राह, पितरं प्रति सागरः ॥ ३८५ ॥ सुहृद्यशोकदत्तेऽस्मिन् , न दोषो दृश्यते क्वचित् ।। परं खलेन केनापि, ताताग्रेऽसौ खलीकृतः ॥ ३८६ ॥ उतासौ भवताद्यादृक्, ताक् किं मे विधास्यति । एकत्र स्थानवासेऽपि, हंसो हंसो बको बकः ॥ ३८७ ॥ ततः पिता सुतं प्राह बुद्धिमानसि यद्यपि । तथाप्यवहितो भूया दुर्जेया हि पराशयाः ॥ ३८८॥ स्वसूनो ववेदी स तदर्थं प्रियदर्शनाम् । याचयित्वा पूर्णचन्द्रात्, पर्यणाययदङ्गजम् ॥ ३८९॥ मिथोऽभवत्तयोः प्रेम चन्द्रचन्द्रिकयोरिव । अविश्रम्भश्च न क्वापि गौरीशंकरयोरिव ॥ ३९० ॥ एकदा कार्यवशतः, सागरेन्दौ बहिर्गते । अशोकदत्तस्तद्गेहं गत्वोचे प्रियदर्शनाम् ॥ ३९१ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org