________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् सर्वाङ्गसुभगां पुष्पसौरभ्याकृष्टषट्पदाम् । भवदाराममायातां सेवस्वेश! मधुश्रियम् ॥ ३६८॥ द्वास्थमाह नृपः प्रातर्नागरैरखिलैरपि । उद्याने समुपेतव्यमेवमाघोषणां कुरु ॥ ३६९ ॥ एनमेवार्थमादिक्षच्छेष्ठिपुत्रं नरेश्वरः ।। सोऽप्यागत्य गृहेऽशोकदत्तमित्राय तं जगौ ॥ ३७० ॥ द्वितीयदिवसे राजा, सपौरः सपरिच्छदः । तदुद्यानमलंचक्रे श्रेष्ठिभूरपि मित्रभाक् ॥ ३७१ ॥ तदारामे वसन्तश्री: कोकिलालिकुलारवैः । पप्रच्छेव प्रजापालं, स्वागतं रन्तुमागतम् ॥ ३७२ ।। गीतैर्नृत्यैश्च वादित्रवादनैः कुसुमोच्चयैः । स्मराज्ञाविवशो लोको रन्तुं प्रववृते वने ॥ ३७३ ॥ अत्रान्तरे समीपस्थादेकस्मात्तरुगह्वरात् । पाहि पाहीति संत्रस्तपुरन्ध्रीध्वनिरुत्थितः ॥ ३७४ ॥ कर्णे प्रविष्टे नादेऽस्मिन् किमेतदिति सत्वरः । सागरः समधाविष्ट विष्टपोद्भासिविक्रमः ॥ ३७५ ॥ पूर्णचन्द्राभिधश्रेष्ठितनयां प्रियदर्शनाम् । सोऽद्राक्षीद् बन्दिभी रुद्धां, वृकैर्वातमृगीमिव ॥ ३७६ ॥ एकस्य बन्दिनो हस्तमामोट्यादाय च क्षुरीम् । शेषानुत्त्रासयामास सागरो हरिवद् द्विपान् ॥ ३७७॥ एवं सागरचन्द्रेण मोचिता प्रियदर्शना । ससंभ्रमा जजल्पेदं कोऽयं मदुपकारकृत् ॥ ३७८ ॥ स्मररूपाधरीकर्ता, भर्त्तायं स्वीकरिष्यते । इति ध्यात्वा निजं धाम जगाम प्रियदर्शना ॥ ३७९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org