SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीदानोपदेशमाला (गा. ६.) वैयावृत्यस्य निर्माणादृषीणामनघात्मनाम् ।। बाहुरप्यर्जयाञ्चक्रे, चक्रिश्रीसुभगं पदम् ॥ ३५६ ॥ विश्रामणां प्रकुर्वाणो वतिनां शमशालिनाम् । सुबाहुश्चार्जयामास, लोकोत्तरभुजाबलम् ॥ ३५७ ।। अहो धन्याविमौ वैयावृत्यविश्रामणापरौ । मुनी बाहुसुबाबाह्रौ वज्रनाभोऽस्तवीदिति ॥ ३५८ ॥ श्रुत्वा तद्वर्णनां पीठमहापीठौ तपस्विनौ ।। चिन्तयामासतुः सत्यं, कार्यकृद्वर्ण्यते जनैः ॥ ३५९ ॥ आवां स्वाध्यायसंलीनावुपकारपराङ्मुखौ । कः श्लाघतेऽथवा लोके स्वार्थो हि बलवत्तरः ॥ ३६० ॥ तौ मायाक्लृप्ततपसावप्रतिक्रान्तपातकौ । कर्म स्त्रीत्वफलं पीठमहापीठौ बबन्धतुः ॥ ३६१॥ एते षडपि निस्त्रिंशधाराचङ्क्रमणोपमाम् । प्रपाल्य दीक्षामक्षीणां, पूर्वलक्षांश्चतुर्दश ॥ ३६२ ॥ द्विधा संलेखनापूर्वं पादपोपगमं श्रिताः । त्रयस्त्रिंशत्सागरायुः सर्वार्थत्रिदिवं ययुः ॥ ३६३॥ युग्मम् ॥ अथापरविदेहेषु श्रीजम्बूद्वीपवर्त्तिषु । सर्वश्रीणां निवासोर्वी, नगर्यस्त्यपराजिता ॥ ३६४॥ तस्यामीशानचन्द्रोऽभूद्राजा, द्रोहिद्रुमानलः । तस्य चन्दनदासाख्यो, मित्रं श्रेष्ठिवरोऽजनि ॥ ३६५ ॥ तद्भूः सागरचन्द्रोऽभूत् पुरीमुखविभूषणम् । सोऽन्यदेशानचन्द्रस्य सेवार्थं तत्सभां ययौ ॥ ३६६॥ ताम्बूलासनदानाद्यै राज्ञास्मिन् सत्कृते सति । कश्चिद्वैतालिकोऽभ्येत्य, पपाठ स्पष्टया गिरा ॥ ३६७ ॥ १. मनिन्द्यात्मनाम् । L. D. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy