________________
३७
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् अथ प्रभुर्वज्रनाभो विंशतिस्थानकान्यसौ । समासेवितुमारेभे, तीर्थकृन्नामकर्मणे ॥ ३४४ ॥ तत्रादौ सोऽर्हतोऽस्तावीत्तद्विम्बानि च भक्तितः । सिद्धांश्च सिद्धस्थानस्थान्, यथार्थगुणकीर्तनात् ॥ ३४५ ॥ स श्रीसंघस्य वात्सल्यं चक्रे ग्लानादिभक्तिभिः । गुरूणामपि वस्त्रान्नपानभेषजदानतः ॥ ३४६ ॥ व्रतायुः श्रुतवृद्धानां साधूनां सेवनं व्यधात् । स्वतश्च बहुसिद्धान्तपाठिनां सोऽशठाशयः ॥ ३४७ ॥ विकृष्टतपसः साधूनार्चिचद्दानभक्तिभिः । स्वाध्यायं पञ्चधा चक्रे, द्वादशाङ्गे श्रुते च सः ॥ ३४८॥ लक्षणैः सप्तषष्ट्याढ्यं स सम्यक्त्वमपालयत् । रत्नत्रयोपचारैश्च चतुर्धा विनयं सुधीः ॥ ३४९ ॥ सामाचारी दशविधामारराध मुनीश्वरः । मूलोत्तरगुणांश्चैतानतीचारविवर्जितान् ॥ ३५० ॥ क्षणे लवे शुभध्यानैः, स्वं मनः समभावयत् । निर्निदानैर्यथाशक्त्या, स तपश्चरणैस्तथा ॥ ३५१॥ संविभागं व्यधादेषोऽन्नादीनां सत्तपस्विषु । वैयावृत्यं च दशधाचार्योपाध्यायसाधुषु ॥ ३५२॥ समाधिं कृतवानेष संघस्यापायरक्षणात् । यत्नेनार्थस्य सूत्रस्यापूर्वस्याध्ययनानि च ॥ ३५३ ॥ विदधे श्रुतभक्तिं स श्रद्धानोद्भासनादिभिः । अष्टधा च निमित्ताद्यैः, शासनस्य प्रभावनाम् ॥ ३५४ ॥ विंशत्या स्थानकैरेवं, वज्रनाभमुनिप्रभुः । बबन्ध तीर्थकृन्नामकर्म निर्वाणकारणम् ॥ ३५५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org