________________
३६
श्रीदानोपदेशमाला (गा. ६.) सुयशा राजपुत्रोऽपि, वज्रसेनमहीभृता ।। स्वरथे सारथिश्चक्रे वासवेनेव मातलिः ॥ ३३२ ।। वज्रसेनप्रभोर्जज्ञे, केवलज्ञानमुज्ज्वलम् । चक्रं चायुधशालायां, वज्रनाभस्य भूपतेः ॥ ३३३ ।। अपराण्यपि रत्नानि त्रयोदश विशांपतेः । निधयश्च नवाभूवन् पुण्यप्राप्या हि संपदः ॥ ३३४ ॥ तत्रान्येद्युः समायातं, वज्रसेनं जिनेश्वरम् । नन्तुं जगाम चक्रीन्द्रः सुयशोभ्रातृसंयुतः ॥ ३३५ ।। स मुक्त्वा राज्यचिह्नानि, कृत्वा च त्रिः प्रदक्षिणाः । प्रभुं समवसरणे नत्वोपेन्द्रमुपाविशत् ॥ ३३६ ॥ राजा भगवतो वाणी, भवसंवेगरङ्गिणीम् । निशम्य शाम्यनिस्नातश्चिन्तयामासिवानिति ॥ ३३७ ॥ अहो असारे संसारे, महाभूरुहदारुवत् । स्वकार्यनिरताः सर्वे, पुत्रमित्रादयो जनाः ॥ ३३८॥ तस्मादुदयमाप्तस्य, जिनेश्वरदिनेशितुः । पादानासाद्य सद्योऽहं, हन्मि संसृतिकृत्तमः ॥ ३३९ ॥ तातं व्यज्ञपयद्राजा, राज्यं दत्तं यथा पुरा । तथाधुनापि मे नाथ! यच्छ स्वां संयमश्रियम् ॥ ३४० ॥ अनुज्ञातो जिनेनासौ राज्यं कृत्वा स्वपुत्रसात् । दीक्षामुपाददे चक्री चतुर्भिर्बन्धुभिः सह ॥ ३४१ ॥ सारथिः सुयशाः सोऽप्यनुस्वामि व्रतमग्रहीत् । वज्रनाभश्च पारीणो द्वादशाङ्ग्यम्बुधेरभूत् ॥ ३४२॥ एकादशाङ्गीपारीणाः शेषाः पञ्चापि जज्ञिरे । तपःप्रभावतश्चैषां बहुधा लब्धयोऽभवन् ॥ ३४३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org