________________
- ३३
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् इतश्च विहरन् पृथ्वीपालक्ष्मापालनन्दनः । गुणाकराभिधस्त्यक्तराज्य: प्रात्तव्रतो व्रती ॥ २९५ ॥ कुपथ्यभोजनोत्पन्नकृमिकुष्ठगलद्वपुः । जीवानन्दगृहे प्राप्तस्तैरदृश्यत सादरम् ॥ २९६ ॥ युग्मम् ॥ सहासं भूपतेः पुत्रो, जीवानन्दमदोऽवदत् । व्याध्यौषधपरिज्ञानमस्ति ते करुणा न तु ॥ २९७ ॥ सखेऽर्थलोभनिरतै व भाव्यं मनीषिभिः । धर्मार्थेऽपि क्वचित्कार्य, चिकित्सितमकुत्सितैः ॥ २९८ ॥ जीवानन्दोऽप्युवाचैवं साधूक्तं नृपनन्दन! । चिकित्स्योऽयं मुनिः किन्त्वौषधाप्ति न विद्यते ॥ २९९ ॥ तत्रैकं लक्षपाकाख्यं तैलमस्ति ममालये । विद्यते न च गोशीर्षचन्दनं रत्नकम्बलः ॥ ३०० ॥ तके आनाययिष्याम, इत्युक्त्वा तत्क्षणाद्ययुः । ते पञ्चाप्यापणश्रेणिं, स्वाश्रयं मुनिरप्यगात् ॥ ३०१ ।। मूल्यमादत्स्व नो यच्छ गोशीर्षरत्नकम्बलौ । इत्युक्तस्तैर्वणिग्वृद्धस्तौ ददत्सोऽब्रवीदिदम् ॥ ३०२ ॥ प्रत्येकमेतयोर्मूल्यमेकं दीनारलक्षकम् । किं वः प्रयोजनं ताभ्यामिति जल्पत पण्डिताः! ॥ ३०३॥ तेऽप्यूचुराभ्यां वस्तुभ्यां चिकित्स्योऽस्ति मुनीश्वरः । निशम्येति गिरस्तेषां वणिगेवमचिन्तयत् ॥ ३०४॥ तेऽमी धन्यतमा येषां यौवनेऽपीदृशी मतिः ।। अहं पुनर्वृथा वृद्धो यस्य पुण्ये मनोऽपि न ॥ ३०५ ॥ तद्वत्सा! गच्छतादाय गोशीर्षरत्नकम्बलौ। न चाहमनयोर्मूल्यं ग्रहीष्ये सुकृतं पुनः ॥ ३०६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org