________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् दृग्विषोऽस्त्यत्र भोगीति, पान्थलोकैर्निवेदिते ।। नयज्ञः सोऽन्यमार्गेणागात्पुरीं पुण्डरीकिणीम् ॥ २७१ ॥ राजा पुष्कलपालोऽपि वज्रजङ्घबलान्वितः । वशीचकार सीमालभूपालानखिलानपि ॥ २७२ ।। राज्ञा पुष्कलपालेन, सत्कृतः श्रीमतीयुतः । वज्रजङ्घो नृपोऽचालील्लोहार्गलपुरं प्रति ॥ २७३ ॥ मुक्त्वा पार्श्वे शरवणं, गच्छन् व्यज्ञपि कैश्चन । मध्येकृत्य प्रजापाल! प्रयाहीदं हि सम्प्रति ॥ २७४ ।। यदत्र केवलज्ञानं, जातं संयतयोर्द्वयोः । तेनामरागमोद्योतो, दृग्विषश्चाविषोऽजनि ॥ २७५ ॥ मुनी सागरसेनश्च मुनिसेनश्च सुव्रतौ । स्वामिन्नत्रैव विद्येते साक्षात्कल्पद्रुमाविव ॥ २७६ ॥ तौ च बन्धू नृपो ज्ञात्वा गत्वा नत्वा च सप्रियः । देशनां भववैराग्यकारिणीमशृणोन्मुदा ॥ २७७ ॥ व्याख्यान्ते तो मुनी राजा, प्रतिलभ्याशनादिभिः । प्रमोदमेदुरस्वान्तश्चिन्तयामासिवानिति ॥ २७८ ॥ एतौ महामुनी धन्यावभूतां कृतकृत्यकौ । एकश्चाहमधन्योऽस्मि, यद् व्रतं नातं मया ॥ २७९ ॥ तद् गत्वा स्वपुरे पुत्रे, राज्यलक्ष्मी निविश्य च । जनकाङ्गीकृतां दीक्षामाचरिष्यामि निश्चितम् ॥ २८० ॥ ततो राज्ञीयुते राज्ञि, लोहार्गलपुरं गते । तत्सुतो राज्यलुब्धः संस्तद्विघातमचिन्तयत् ॥ २८१ ।। राज्यं वितीर्य पुत्राय ग्रहीष्यावो व्रतं प्रगे । इति निश्चित्य निश्चिन्तौ प्रसुप्तौ दम्पती निशि ॥ २८२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org