________________
३०
श्रीदानोपदेशमाला (गा. ६.) जैनबिम्बार्चनासक्तोऽस्मिन् श्रीनन्दीश्वरेऽस्म्यहम् । तीर्थेष्वन्येषु गच्छंश्च च्यवमानोऽयमस्म्यहम् ॥ २५९ ।। इह दीनानना चैका, च्यवमाना स्वयंप्रभा । मन्ये तयेदं सञ्जातजातिस्मृत्या ह्यलेख्यत ॥ २६० ॥ पण्डितापि वचस्तस्य सत्यं मत्वा चमत्कृता । श्रीमत्यग्रेऽवदत् सर्वं, तत् स्वरूपं यथोदितम् ॥ २६१ ॥ सापि धात्रीमुखेणेदं वृत्तं पित्रे व्यजिज्ञपत् । चक्री श्रीवज्रसेनोऽपि वज्रजङ्घमथाह्वयत् ॥ २६२ ॥ नृपः कुमारमाह स्म, श्रीमती मत्तनूद्भवा । पूर्वजन्मवदत्रापि, त्वत्प्रिया भवतादियम् ॥ २६३॥ तेनाप्यङ्गीकृते राजा श्रीमती पर्यणाययत् । सत्कृत्य प्रेषितश्चायं लोहार्गलपुरं गतः ॥ २६४ ॥ न्यस्य राज्ये वज्रजङ्ख, स्वर्णजङ्घो नरेश्वरः । दीक्षामादाय जैनेन्द्री, कृतकृत्योऽगमद् दिवम् ॥ २६५ ।। चक्रभृद्वज्रसेनोऽपि, पुत्रे पुष्कलपालके । राज्यं न्यस्याग्रहीद् दीक्षां, जिनीभूय शिवं ययौ ॥ २६६ ॥ वज्रजङ्घमहीभर्तुः, श्रीमत्या कान्तया सह । भुञ्जानस्याद्भुतान् भोगांस्तनयः समजायत ॥ २६७॥ अथ पुष्कलपालस्य, सामन्ताः केऽपि शासनम् । नामन्यन्त मदोन्मत्ता वारणेन्द्रा इवाङ्कशम् ॥ २६८ ॥ तेनाथाकारितस्तेषां, जयार्थं वज्रजङ्घराट् । श्रीमतीदयितायुक्तः प्राचालीत्प्रबलैर्बलैः ॥ २६९ ॥ सोऽर्द्धमार्गं गतोऽपश्यन्महाशरवणं वनम् । निश्यन्धकारयुक्तायामपि तेजोभ्रमप्रभम् ॥ २७० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org