________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् क्रीडोद्यानेऽन्यदायातां, श्रीमती विजने मुदा । धात्र्यूचे पण्डितानाम्नी, वत्से! किं मौनवत्यसि ॥ २४७ ॥ सा प्राह तस्यै वृत्तान्तं, निजप्राग्भवसंभवम् । तं लिखित्वा पटे धात्र्यप्यगाद् दर्शयितुं बहिः ॥ २४८ ॥ अथ सा वज्रसेनस्य, वर्षग्रन्थिमहोत्सवे । समागतेभ्यो भूपेभ्यो दर्शयामास तं पटम् ॥ २४९ ॥ तत्र जैनागमाभिज्ञाः केचिन्नन्दीश्वरादिकम् । सिद्धान्तस्याविसंवादि, लिखितं वीक्ष्य तुष्टुवुः ॥ २५० ।। बिम्बान्यवर्णयन् केऽपि, चित्ररेखास्तथापरे । केचिच्च व्याजमूर्छाला, भूपालाः स्वमहासयन् ॥ २५१ ।। अथ लोहार्गलद्रङ्गाद्वज्रजङ्घः समेत्य तत् ।। पटचित्रं समीक्ष्यासौ, मूर्छा तत्क्षणतो गतः ॥ २५२ ॥ सिक्तश्चन्दनपानीयैर्वीजितो व्यजनैरपि। कुमारः प्राप्तचैतन्यः, स्वं पूर्वभवमस्मरत् ॥ २५३॥ पटचित्रमिदं दृष्ट्वा, मूर्छितोऽसि कुमार! किम् । इति पण्डितया प्रोक्तो, वज्रजङ्घो जगाविति ॥ २५४ ॥ भद्रे! मम सभार्यस्य चरित्रं पूर्वजन्मनः । पटे लिखितमस्तीह तेनाहं मूर्च्छितोऽभवम् ॥ २५५॥ देवलोकोऽयमीशानो विमानं श्रीप्रभं त्विदम् । ललिताङ्गः सुरश्चायं मत्प्रियेयं स्वयंप्रभा ॥ २५६ ॥ नन्दिग्रामे दुर्गतस्य पुत्री निर्नामिकेत्यसौ । भूधरेऽम्बरतिलके युगन्धरगुरोः पुरः ॥ २५७ ॥ गृहीतानशनास्त्येषा मां दृष्ट्वा चानुरागिणी । मृत्वा स्वयंप्रभा जज्ञे, ललिताङ्गस्य वल्लभा ॥ २५८॥ युग्मम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org