SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ૨૮ श्रीदानोपदेशमाला (गा. ६.) जम्बूद्वीपे प्राग्विदेहे, विजयः पुष्कलावती । तत्र लोहार्गलद्रङ्गे, स्वर्णजमहीपतेः ॥ २३५ ।। लक्ष्यां पल्यां सुतो जातो ललिताङ्गस्ततश्च्युतः । पितृभ्यां वज्रजङ्केति नाम तस्य व्यधीयत ॥ २३६ ॥ युगलम् ॥ स्वयंप्रभापि जीवेशवियोगविवशाशया ।। धर्मकर्मपराच्योष्ट ललिताङ्गसुपर्ववत् ॥ २३७ ॥ तत्रैव विजये पुण्डरीकिण्यां पुरि चक्रिणः । वज्रसेनस्य जायायां, गुणवत्यां सुताभवत् ॥ २३८ ॥ तन्नाम पितरौ प्रीतौ श्रीमतीति प्रचक्रतुः । . साप्यवर्धत सच्छाया, कल्पवल्लीव वर्णिनी ॥ २३९ ॥ एकदा सर्वतोभद्रं प्रासादमधिरुह्य सा । मनोरमाभिधोद्याने, सुस्थितस्य महामुनेः ॥ २४० ॥ उत्पन्ने केवलज्ञाने, निरीक्ष्यागच्छतः सुरान् । पूर्वजन्म च संस्मृत्य, मूर्च्छिता पतिता भुवि ॥ २४१॥ युग्मम् ॥ चन्दनद्रुमसेकेन, वयस्याभिः कृतेन सा । चैतन्यमाप्य चोत्थाय, चेतस्येवमचिन्तयत् ॥ २४२॥ स मे प्राग्जन्मनो भर्ता, ललिताङ्गो दिवश्च्युतः । क्वास्तेऽवतीर्ण इत्येषा चिन्ता दुःखाकरोति माम् ॥ २४३॥ तेनैव साकमालापः, कार्यो नान्येन केनचित् । इति निश्चित्य राट्पुत्री, मौनव्रतमुपाददे ॥ २४४ ॥ मन्त्रौषधप्रयोगेण सखीभिः कारितेन सा । मूकत्वं नात्यजद् बालबालो बालग्रहं यथा ॥ २४५ ॥ बालबाल:-जडबालः । हस्तभ्रूसंज्ञया वर्णाल्लिखित्वा स्वप्रयोजनम् । बाला वयस्यावर्गाय निवेदयति सर्वदा ॥ २४६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy