________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
इति सा देशनां श्रुत्वा, युगन्धरगुरोः पुरः । आदरादार्हतं धर्मं गृहस्थोचितमग्रहीत् ॥ २२३ ॥ भक्त्या यतिपतिं नत्वा, ततो धाम गता सती । दुष्कर्मक्षपणायैव सा तेपे दुस्तपं तपः ॥ २२४ ॥ तारुण्येऽपि न तां कश्चित् समुपायंस्त दुर्भगाम् । सुपक्वमपि निम्बद्रुफलमश्नाति किं शुकः ? ॥ २२५ ॥ निजदौर्भाग्यनिर्विण्णा, तत्राद्रौ पुनरेयुषः । युगन्धरगुरोः पार्श्वे, सास्त्यात्तानशनाधुना ॥ २२६ ॥ तद् गत्वाद्भुतरूपं स्वं दर्शयास्या महामते ! । यथा संक्षुब्धचित्ता सा त्वामेव दयितीयति ॥ २२७॥ तच्चक्रे ललिताङ्गोऽपि सापि तत्रानुरागिणी । कृत्वा निदानं मृत्वा च तत्प्रियाभूत् स्वयंप्रभा ॥ २२८ ॥ ललिताङ्गस्तया साकं रममाणः कियत्यपि । गते काले स चिह्नानि, च्यवनस्य निरैक्ष्यत ॥ २२९ ॥ कल्पद्रुकम्पो ह्रीनाशस्तेजोहानिर्मतिभ्रमः । वस्त्रोपरागो दीनत्वं चाङ्गभङ्गोऽतिरागता ॥ २३०॥ एवं चेष्टा विलोक्यासौ कान्दिशीक इव स्थितः । दृढधर्माख्यमित्रेण समागत्येत्यभाष्यत ॥ २३१ ॥ नन्दीश्वरादिषु जिनप्रतिमार्चाचिकीर्षया । यास्यतीशानकल्पेन्द्रस्त्वमप्यागच्छ तद्गिरा ॥ २३२॥ पुण्योदयादहो स्वामिशासनं समयोचितम् । ललिताङ्ग इति ध्यायन् दयितासहितोऽचलत् ॥ २३३ ॥ नन्दीश्वरादितीर्थेषु गत्वार्चित्वा जिनार्चिकाः । प्रपाल्य चायुः सोऽभावं निरेधोऽग्निरिवागमद् ॥ २३४ ॥
Jain Education International
For Personal & Private Use Only
२७
www.jainelibrary.org