________________
२६
श्रीदानोपदेशमाला (गा. ६.) तत्रायान्तं जनं दृष्ट्वा, पृष्ट्वा चागमकारणम् । निर्नामिकापि तदुःखं त्यक्त्वा नन्तुं मुनिं ययौ ॥ २११॥ मुनिं नत्वोपविष्टा सा, भवसंवेगकारिणीम् । निशम्य देशनां तं द्राक् पप्रच्छ रचिताञ्जलिः ॥ २१२ ॥ स्वामिन्नस्मिन् भवे कोऽपि, मत्सदृक्षोऽस्ति दुःखितः । इतीरितो यतिः प्राह, किं ते कष्टं हि विद्यते ॥ २१३ ॥ भद्रे! शृणु महद् दुःखं छेदभेदसमुद्भवम् । सहन्ते नरकावन्यां जीवाः परमदारुणम् ॥ २१४ ।। भारारोपणशीतोष्णक्षुत्पिपासादिसंभवाम् । तिर्यञ्चोऽपि परायत्ताः सहन्ते हन्त वेदनाम् ॥ २१५ ॥ वातपित्तकफश्लेष्मज्वरकुष्ठादिकैर्गदैः । निर्धनत्ववियोगैश्च पीड्यन्ते मानवा अपि ॥ २१६ ॥ इर्ष्याविषादविरहै:, पराभूताः सुरा अपि । वहन्ति सर्वदा दु:खं, ही कष्टा कर्मणां गतिः ॥ २१७॥ इति विज्ञाय संसारं, वत्से! दुःखनिबन्धनम् । सम्यक्त्वमूलं तद्धर्म, द्वादशात्मानमाश्रय ॥ २१८ ॥ तथाहि-अर्हन् देवो गुरुः साधुस्तत्त्वं श्रीमज्जिनोदितम् । सम्यक्त्वमिति सेवस्व पञ्चलक्षणलक्षितम् ॥ २१९ ।। त्यज हिंसामसत्यं च, चौरिकां मैथुनं तथा । परिग्रहातिरिक्तत्वं, दिग्प्रमाणमथाश्रय ॥ २२० ॥ उज्झ भोगातिरिक्तत्वं, तथानाग्रदण्डकम् । भज सामायिकं सम्यक् तथा देशावकाशिकम् ॥ २२१ ।। पौषधातिथिसत्कारौ कुरु सद्वासनापरा । यथा समीहितं सर्वं, फलेग्रहि भवेत्तव ॥ २२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org