________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
क्रमात्सुषुविरे नागश्रिया षट्प्रमिताः सुताः । कुरूपा बहुभाषिण्यो ग्रामशूकरिका इव ॥ १९९॥ पुनस्तां गुर्विणीं दृष्ट्वा, नागिलो हृद्यचिन्तयत् । सवित्री चेदियं पुत्रीं, तदा देशान्तरं गमी ॥ २०० ॥ एवं चिन्तयतस्तस्य दयिता सुषुवे सुताम् । तच्छ्रुत्वा नागिलः शीघ्रमनश्यन्निष्कृपाशयः ॥ २०१ ॥ तस्या नामापि नाकार्षीन्नाग श्रीरतिदुःखिता । ततो निर्नामिकेत्याह्वा, लोकैरस्या विनिर्ममे ॥ २०२ ॥ अपालितापि सा मात्रा, वृद्धिमाप विधेर्वशात् । दौर्भाग्याच्चान्यगेहेषु, दुष्कर्माण्यकरोत्सदा ॥ २०३॥ सान्येद्युरुत्सवे जाते, धनिनां बालपाणिषु । मोदकान् मोदकान् वीक्ष्य, स्वां मातरमयाचत ॥ २०४ ॥ तां प्रत्युवाच सा कोपात्पापे ! किमिदमब्रवीः । जाने पितापि ते नाश्नात् जातुचिन्मोदकैर्विना ॥ २०५ ॥ चेन्मोदकबुभुक्षुस्त्वं रज्जुं लात्वा प्रयाहि तत् । काष्ठभारकृते पापेऽम्बराग्रतिलके गिरौ ॥ २०६ ॥ तद्वचो वज्रपाताभं श्रुत्वा संतापतापिता । रज्जुमादाय पर्यश्रुस्तं भूधरमगादसौ ॥ २०७ ॥ तदास्याद्रेः शिरस्येकरात्रिकप्रतिमाजुषः । युगन्धरमुनेर्जज्ञे, केवलज्ञानमुज्ज्वलम् ॥ २०८ ॥ तन्निवासिसुरैर्भक्तिभरात्तस्य महात्मनः । केवलज्ञानमहिमोत्सवोऽत्यर्थं विनिर्ममे ॥ २०९॥ तत्समीपपुरग्रामनिवासी सकलो जनः । तं मुनीन्द्रं नमस्कर्तुं समायातः प्रमोदतः ॥ २१०॥
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org