________________
२४
श्रीदानोपदेशमाला (गा. ६.)
वज्राहत इव क्षिप्रं, मुमूर्छ ललिताङ्गकः । ततः सोऽवाप्तचैतन्यो व्यलपच्च पुनः पुनः ॥ १८७ ॥ हा प्रिये! क्व गतासि त्वं, मां मुक्त्वैकमनाथकम् । ब्रुवाण इति बभ्राम, स पश्यंस्तन्मयं जगत् ॥ १८८॥ अथ मन्त्री स्वयंबुद्धः स्वामिमृत्युवियोगतः । सिद्धाचार्यान्तिके दीक्षां जग्राहाऽभिग्रहाग्रही ॥ १८९ ॥ चारित्रं निरतीचारं पालयित्वा चिराय सः । ईशाने दृढधर्माऽभूच्छक्रसामानिकः सुरः ॥ १९० ॥ स पूर्वभवसंबन्धात्सस्नेहो बन्धुवत्तदा । प्रबोधयितुमारेभे, ललिताङ्गं वियोगिनम् ॥ १९१॥ मा मुहस्त्वं महाभाग! वनितामात्रहेतवे ।। अवस्थामीदृशीं नैव, धीरा गच्छन्ति कर्हिचित् ॥ १९२ ॥ जगाद ललिताङ्गोऽपि सखे! किमिदमुच्यते । वरं प्राणात्ययोऽपि स्यान्न तु कान्तावियोगता ॥ १९३ ॥ सखे! ह्यसारे संसारे सारमेकेव वल्लभा । यया विना विषायन्ते, सकला अपि संपदः ॥ १९४॥ दृढधर्मापि तदुःखश्रवणादिव दुःखितः । ज्ञानेनावधिना दत्त्वोपयोगमिदमब्रवीत् ॥ १९५ ॥ महाभाग! विषादं मा कुरु सुस्थो भवाधुना । मयापि पश्यता विश्वं, लब्धासि तव वल्लभा ॥ १९६ ।।.. विद्यते धातकीखण्डे प्राग्विदेहविभूषणम् । नन्दिग्रामाभिधो ग्रामो, निधानमिव संपदाम् ॥ १९७॥ तत्रास्ते नागिलो नाम, दारिद्रमिव मूर्तिमत् । भार्या तस्यास्ति नागश्रीश्चण्डिकेवातिभीषणा ॥ १९८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org