________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् तस्मादुत्थाय गत्वा च चैत्यं भक्तिनताङ्गकः । पुष्पाद्यैः पूजयाञ्चक्रे शाश्वतीप्रतिमाः सुरः ॥ १७५ ॥ वाद्यमानैर्महातोद्यैर्गीयमानैश्च गीतकैः । विधाय नाटकं स्तोत्रैः सोऽस्तवीजिनपुङ्गवान् ॥ १७६ ॥ ज्ञानरत्नार्णवानेष, वाचयामास पुस्तकान् । अस्थीनि माणवस्तम्भस्थान्यानर्च तथार्हताम् ॥ १७७ ॥ छत्रेण धार्यमाणेन, त्रिदशैराभियोगिकैः । सलीलं ललिताङ्गोऽथ, स लीलानिलयं ययौ ॥ १७८॥ विलोचनाभ्यां पादाभ्यां हस्ताभ्यामाननेन च । सौन्दर्यसरिदन्तस्था, स्मेराम्बुजवनीव सा ॥ १७९ ॥ कुचाभ्यां कुम्भिकुम्भस्य, बिभ्रती विभ्रमश्रियम् । भुजाभ्यां नलिनीनालतुलनां कलयन्त्यलम् ॥ १८० ॥ कृशेनोदरमध्येन, स्पृशन्त्यणुगतां श्रियम् । गम्भीरां तन्वती नाभी शृङ्गारसरसीमिव ॥ १८१॥ स्मरक्रीडास्थानमिव, नितम्बफलकं पृथु । दधती कदलीस्तम्भनिभमूरुयुगं तथा ॥ १८२॥ तेजसा द्योतयन्ती यां, सर्वाङ्गीणविभूषणा । ददृशे ललिताङ्गेन पट्टराज्ञी स्वयंप्रभा ॥ १८३॥ पञ्चभिः कुलकम्॥ तया सस्नेहया सार्धं, कृताभ्युत्थानयाऽमरः । पर्यङ्कावस्थितो रेजे, रोहिण्येव सुधाकरः ॥ १८४॥ स दिव्यैर्विविधैर्भोगैर्ललिताङ्गः स्वयंप्रभाम् । अरंस्त ध्वस्तविरहो, मराल ईव पद्मिनीम् ॥ १८५॥ कियत्यपि गते काले, प्रदीपकलिकेव सा । स्वयंप्रभा ययावस्तं समं प्रियमनोरथैः ॥ १८६॥ * पुस्तकानीति संगतं भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org