________________
२२
श्रीदानोपदेशमाला (गा. ६.) धर्मः कियान्मया साध्य, आयुष्यल्पतरेऽधुना । प्रवृत्ते समरे शक्याः , शिक्षितुं किं तुरङ्गमाः? ॥ १६३॥ सचिवोऽप्यूचिवानेवं देव! मा खेदमुद्वह । स्थिरीभव भवच्छेत्री, संयमश्रियमाश्रय ॥ १६४ ॥ जीवो दिवसमप्येकं, प्रव्रज्यां समुपागतः । मोक्षं यद्यपि नाप्नोति ध्रुवं वैमानिको भवेत् ॥ १६५ ।। अङ्गीकृत्य वचस्तस्य, महाबलनृपः सुतम् । स्वपदे स्थापयामास विनेयमिव सूरिराट् ॥ १६६ ।। स चैत्येऽष्टाह्निकां कृत्वा, दीनानुद्धृत्य वैभवैः । स्वजनान् क्षमयित्वा, च गुरोः पार्श्वेऽग्रहीद् व्रतम् ॥ १६७॥ व्रतानन्तरमेवासौ, सर्वाहारनिषेधनम् । द्वाविंशतिदिनान् कृत्वा, परीषहजिगीषया ॥ १६८॥ परमेष्ठिनमस्कारं, स्मरन् मृत्वा समाधिना । ईशाने ललिताङ्गोऽभूद्विमाने श्रीप्रभे सुरः ॥ १६९ ॥ संदानतिकम् ॥ श्रुत्वा जयजयारावं, देवदेवीविनिर्मितम् । कोऽहं कुतः समायातः किमिदं का इमाः श्रियः? ॥ १७० ॥ इति दत्तोपयोगोऽयमवधिज्ञानतः सुरः। व्यतीताहमिवास्मार्षीत् पाश्चात्यभवमात्मनः ॥ १७१॥ युग्मम् ॥ सोऽहं विद्याधराधीशः, स्वयंबुद्धेन मन्त्रिणा । बोधितो जैनधर्मेऽस्मिन्, प्रव्रज्यां प्रतिपन्नवान् ॥ १७२ ॥ तस्याः प्रभावतो देवः शक्रसामानिकोऽभवम् । इति ज्ञात्वा स उत्थाय, सिंहासनमुपाविशत् ॥ १७३ ॥ ततोऽभिषिक्तः सोऽमत्यैर्वीजितश्चामरैर्वरैः । अगीयत च गन्धर्वैर्विधृतातपवारणः ॥ १७४ ॥
म्
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org