________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
आर्तध्यानपरो राजा, मृत्वा कोशालये निजे । दुर्गरोऽजगरो जज्ञे ही दुष्कर्मविजृम्भितम् ॥ १५१ ॥ तत्र कोशगृहे यो यः, प्रवेशं चकृवान् जनः 1 तं तं ददंश निःशूको, दन्दशूको निरन्तरम् ॥ १५२ ॥ तत्राविशन्तमन्येद्युर्विलोक्य वनमालिनम् । ममायं सूनुरित्यस्य जातिस्मृतिरजायत ॥ १५३ ॥ वनमाल्यपि तं नागं निरीक्ष्य प्रेमनिर्भरम् । ध्रुवं कोऽप्येष मे बन्धुरिति चेतस्यचिन्तयत् ॥ १५४॥ सोऽपि तं ज्ञानिनः पार्श्वाद्विज्ञाय जनकं निजम् । तस्याहे: पुरतो जैनं, धर्मतत्त्वमुपादिशत् ॥ १५५ ॥ सोऽपि श्रुत्वार्हतं धर्मं, प्रपद्यानशनं मुदा । शुभध्यानेन मृत्वा च स्वर्लोकश्रियमाप्तवान् ॥ १५६॥ पुत्रप्रेम्णा दिवोऽभ्येत्य स देवो वनमालिने । ददौ मुक्तामयं हारं सोऽयं कण्ठे तव प्रभो ! ॥ १५७ ॥ हरिचन्द्रस्य वंशे त्वं, सुबुद्धेश्चाहमन्वये ।
अतः क्रमागतादाप्तभावाद्धर्मे प्रवर्त्यसे ॥ १५८ ॥ यद्विज्ञप्तं मयेदानीं त्वयि यौवनवत्यपि । तत्रैकाग्रमनाः स्वामिन्! समाकर्णय कारणम् ॥ १५९ ॥ देवाऽद्य नन्दनोद्याने, चारणश्रमणौ मम । मिलितौ शीलकलितौ, ज्ञानविज्ञातविष्टपौ ॥ १६०॥ व्याख्यान्ते तौ मया पृष्टौ प्रमाणं भवदायुषः । मासमात्रं तदूचातेऽतस्त्वां धर्मे प्रवर्त्तये ॥ १६१ ॥ ततो महाबलः प्राह, स्वयंबुद्ध ! हितोऽसि मे । यद्भोगनिद्रानिद्राणं, मामुज्जागरयस्यरम् ॥ १६२॥
Jain Education International
For Personal & Private Use Only
२१
www.jainelibrary.org