________________
२०
श्रीदानोपदेशमाला (गा. ६.) सोऽन्यदा बालसुहृदं, सुबुद्धिं श्राद्धमभ्यधात् । तत्त्वज्ञेभ्यस्त्वया धर्मः, श्रुत्वा कथ्यो ममाग्रतः ॥ १३९ ॥ अथोद्याने समुत्पन्नकेवलं देवसेवितम् । शीलन्धरमुनिं प्राह सुबुद्धिर्नृपतेः पुरः ॥ १४० ॥ इदमाकर्ण्य तद्वाक्यं, हर्षोत्फुल्लविलोचनः । नरेन्द्रस्तुरगारूढो, मुनीश्वरमुपाययौ ॥ १४१ ॥ नत्वोपविष्टे भूमीन्द्रे शीलन्धरमुनीश्वरः । विदधे कुमतध्वान्तचन्द्रिकां धर्मदेशनाम् ॥ १४२ ।। व्याख्याप्रान्ते प्रजापालस्तमप्राक्षीत् कृताञ्जलिः । भगवन् ! मत्पिता मृत्वा, कां गतिं गतवानयम् ॥ १४३॥ मुनिर्जगाद राजेन्द्र! क्रूरकर्मा पिता तव । सप्तमं नरकं प्राप स्थितिर्नान्यत्र पापिनाम् ॥ १४४ ॥ एतदाकर्ण्य भूपालो मुनीन्द्रं प्रणिपत्य च । संवेगरङ्गसंसङ्गी निजप्रासादमासदत् ॥ १४५ ॥ राज्यं दत्त्वाथ पुत्राय, नृपः सचिवमद्रवीत् । स्वीकरिष्ये व्रतं मद्वत्त्वं चाऽस्मिन् धर्ममादिश ॥ १४६ ॥ सोऽप्याह त्वामनु स्वामिन्नादास्ये व्रतमप्यहम् । मत्पुत्रस्त्वत्सुते पुण्यं, वक्ष्यतेऽहमिव त्वयि ॥ १४७ ॥ कर्मदावमहादावं, गृहीत्वा व्रतमार्हतम् । हरिचन्द्रः सुबुद्धिश्च, जग्मतुः परमं पदम् ॥ १४८ ॥ अन्यच्च युष्मद्वंशेऽभूद् दण्डको नाम भूपतिः । तत्पुत्रो मणिमालीति, विख्यातः क्षितिमण्डले ॥ १४९ ॥ कलत्रपुत्रमित्रेषु, स्वर्णरत्नधनेषु च । प्राणेभ्योऽप्यतिभीष्टेषु, मूर्छावान् दण्डकोऽभवत् ॥ १५० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org