________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
महाबल ! महीपाल ! तव वंशे पुराजनि । कुरुचन्द्रो महीचन्द्रो वैरिवारणकेसरी ॥ १२७ ॥ कान्ता कुरुमती तस्य, शीलालङ्कारधारिणी । तयोश्च हरिचन्द्रोऽभून्नन्दनो जननन्दनः ॥ १२८ ॥ स भूपोऽभून्महारम्भनिरतो नास्तिकाग्रणीः । सदैव मद्यमांसाशी, निष्कृपश्च कृतान्तवत् ॥ १२९ ॥ स पापीयानपि चिरं राज्यश्रियमपीपलत् । पुरार्जितानां पुण्यानां फलमप्रतिपाति हि ॥ १३० ॥ तस्य पापीयसः प्रान्तकाले धातुविपर्ययात् । व्यथा बभूवुरासन्नदुर्गतेर्वर्णिका इव ॥ १३१ ॥ तस्याग्निशकटीवाभूत्तूलिका दुःखदायिका । धत्तूररससंकासा, सरसा रसवत्यपि ॥ १३२ ॥ सुगन्धा अपि दुर्गन्धा, बभूवुर्यक्षकर्दमाः । कलत्रमित्रपुत्राद्या, दुर्जना इव जज्ञिरे ॥ १३३ ॥ कर्णक्लेशकराश्चासन्, गीतयः क्रोष्टुनादवत् । यतः पुण्यक्षये सर्वं प्रयाति प्रतिकूलताम् ॥ १३४ ॥ भोगोपचारैरशुभैः, क्षणं तस्य सुखावहैः । प्रतिजागरणं चक्रे, हरिचन्द्रः प्रसूयुतः ॥ १३५॥ दाहवेदनयाक्रान्तो रौद्रध्यानपरायणः ।
1
कुरुचन्द्रनृपो मृत्वा, जगाम नरकावनीम् ॥ १३६॥ तस्यान्तकृत्यं कृत्वाथ हरिचन्द्रस्तदङ्गजः न्यायवानशिष्यद्राज्यं, सुरेन्द्र इव ताविषम् ॥ १३७॥ ताविषम् स्वर्गम् ।
तादृक् पापफलं वीक्ष्य, पितृमृत्युं सुदारुणम् । पुरुषार्थेषु सर्वेषु, सारं धर्मममन्यत ॥ १३८॥
Jain Education International
For Personal & Private Use Only
१९
www.jainelibrary.org