________________
१८
श्रीदानोपदेशमाला (गा. ६.) देहादात्मा पृथग्भूतः परलोकगमागमी । परलोकोऽपि धर्मादिजनितः सुखदु:खदः ॥ ११५ ॥ यदेको भवति स्वामी, किंकरास्तस्य चापरे । इति दृष्ट्वापि किं मूर्धर्मेऽधर्मे च मुह्यते ॥ ११६ ॥ तत्प्रभो! पापमित्राणाममीषां भाषितं त्यज । विहाय विरसान् भोगान्, धियं धर्मे निधेहि च ॥ ११७॥ पुनर्विज्ञपयाञ्चक्रे, स्वयंबुद्धो महाबलम् । शङ्कां कुरुष्व मा धर्मफले खेचरशेखर! ॥ ११८ ॥ तत्किं ते विस्मृतं स्वामिन्नावाभ्यां नन्दने वने । गताभ्यां क्रीडितुं दृष्टो, यदेको भासुरः सुरः ॥ ११९ ॥ सानन्दं स तदा देव! देवस्त्वामित्यभाषत ।। अहं विद्याधराधीशोऽतिबलस्ते पितामहः ॥ १२० ॥ भोगिभ्य इव भीमेभ्यो, भोगेभ्यो बिभ्यता मया । विहाय तृणवद्राज्यं, रत्नत्रयमुपाददे ॥ १२१ ॥ सुदुस्तपं तपस्तप्त्वा, गृहीत्वा चानशनं ततः । शुभध्यानपरो मृत्वा, जज्ञेऽहं लान्तकेश्वरः ॥ १२२ ॥ तस्माद् वत्स! प्रमादस्य, सेवा कार्या न कर्हिचित् । इत्युदीर्य स देवेन्द्रो, जगाम त्रिदशालयम् ॥ १२३ ।। तत्त्वं पैतामहं वाक्यं, स्मरान्यभवसाधकम् । न हि प्रत्यक्षसिद्धेऽर्थे, भ्रान्तिः संगतिमङ्गति ॥ १२४॥ भूपोऽप्याह महाभाग! साध्विदं स्मारितं वचः । परलोकमहं धर्माधर्मकारणमाद्रिये ॥ १२५ ॥ मिथ्यात्वकन्दकुद्दालः, संप्राप्यावसरं पुनः ।। स्वयंबुद्धोऽवनीजानिं, प्रत्यूचे सचिवाग्रणीः ॥ १२६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org