________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् पयोभिरिव पाथोधिरेधोभिरिव पावकः । प्रान्तातिविरसै गैः, स्वामिन्! जीवो न तृप्यति ॥ १०३ ॥ कूलच्छाया विषं सर्पाः, पारीन्द्रा दुर्जना अपि । संसेव्यमाना विषया, जायन्तेऽत्र विपत्तये ॥ १०४॥ तत्प्रसद्य कुलस्वामिन्! मोहनिद्रामपास्य च । व्यसनासेवनं हित्वा धियं धर्मे नियोजय ॥ १०५ ॥ चातुर्गतिकसंसारे धर्मेण रहिता नराः । बाध्यन्ते विविधैर्दु:खैस्तिलयन्त्रे तिला इव ॥ १०६॥ धर्मेणैव त्वया लेभे, नाथ! खेचरचक्रिता । अतस्तमेव सेवस्व, चिदानन्दपदाप्तये ॥ १०७॥ सुधामधुरमप्यस्य वचो मत्वा विषोपमम् । . कौलाः संभिन्नमत्याद्याः, सचिवा अवदन्निति ॥ १०८॥ कौला:-कुलीनाः । हे स्वयंबुद्ध! नः स्वामी, शिशुवद्विप्रतार्यते । मातृमोदकतुल्येनानेन धर्मेण किं त्वया ॥ १०९॥ अभावादेव धर्मस्य, फलं परभवश्रियः । ब्रुवाणास्त्वादृशाः कैः कैर्न हस्यन्ते जडैरिव ॥ ११० ॥ तदाधारोऽपि नैवात्मा, प्रत्यक्षेण निरीक्ष्यते । अतः परभवभ्रान्तिं, भ्रान्तिं मन्यस्व तं विना ॥ १११ ॥ अतो नाथ! लल स्वैरं, पिब स्वपिहि भुङ्क्ष्व च । रहस्यमिति मत्वोज्झ, स्वयंबुद्धमते मतिम् ॥ ११२ ॥ इत्युक्त्वा विरतेष्वेषु, स्वयंबुद्धोऽब्रवीदिदम् । हहा नास्तिकलुण्टाकैर्खण्ट्यतेऽनीश्वरं जगत् ॥ ११३ ॥ स्वसंवेदनसंवेद्ये, सिद्धिसौख्यादिहेतुभिः । फलभोक्तरि चाप्रोक्ते, मोहो वः कथमात्मनि ॥ ११४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org