________________
४०८
श्रीदानोपदेशमाला यत्प्रतिलोमत इति यत्प्रतिलोमतः यस्य पूर्वोक्तसद्गुरोः प्रतिलोमतः-- रोमरोमतः निर्यन्ती-निष्क्रामन्ती या साधना साध्यतेऽपवर्गो यया मोक्षगामिणी आराधना सैव ऊर्जा अथवा तदुद्भवा ऊर्जा-तेजः पुञ्जःकीदृशी सा? सुखावहा सुखम् आत्मिकाह्लादम् आवहति-आकर्षतीति...सखा वहा... आत्मा-नन्दप्रदेत्यर्थः । ननु-निश्चे, न:-अस्माकम् , रोमरोमाशितं-रोमरोमव्याप्तम्, प्रमादध्वान्तं-प्रमाद्यन्ते मोक्षं प्रति एभिः प्रमादाः त एव ध्वान्तमन्धकारम् , आसाद्-आ समन्तात् असाद् अभिनद् विनाशितमित्यर्थः ।
जिनाज्ञापालनोद्दीप्त-यज्जीवनप्रदीपरुक् । भवारण्याटिनेऽरान्मे महाशिवपथं सुखम् ॥४॥
जिनाज्ञेति..जिनाज्ञापालनोद्दीप्तयज्जीवनप्रदीपरुक् -जिनानां जितरागद्वेषमोहानां या आज्ञा चरणकरणसप्ततिरूपा तस्या यत् पालनम् आदरपूर्वकाचरणम् तेन उद्दीप्तं-प्रकाशितम्, यस्य-पूर्वोक्तनामाङ्कितसद्गुरोः जीवनंसाधनामयकाल एव प्रदीप:-दीपकस्तस्य या रुक्-प्रकाशः भवारण्याटिने-भव:संसार एव अरण्यम्-गाढवनम् तस्मिन् अटति-भ्राम्यतीति तस्मै संसारवनसंचारिणे मे-मह्यम्, सुखम् शातादायिनं महाशिवपथंमहान्तम्-अतिशयमुदारमनुत्तरत्वात् शिवं-कल्याणकरं मोक्षो वा तस्य पन्थानं-मार्गम् , अरात्-अदादित्यर्थः ।
यद्वैराग्यसुधावर्षि-वचोब्देनाशमत्तमाम् । विषयवासनाधर्म-तप्तान्तरावनिस्तु नः ॥५॥
यद्वैराग्येति...तुः-पुनः नि:संशयं वा, यद्वैराग्यसुधावर्षिवचोब्देन-यस्यपूर्वोक्तसद्गुरोः, वैराग्यं-परद्रव्येषु औदासीन्यरूपं तदेव सुधां-पीयूषं वर्षतीति वर्षणशीलो यद वचः-वचनं तदेव अब्दः अपः ददातीति मेघस्तेन, न:अस्माकम्, विषयवासनाघर्मतप्तान्तरावनिः-विषयाः-मन-इन्द्रियपोषकाणि पुद्गलद्रव्याणि तेषु तेषां वा या वासना-आसक्तिः सैव धर्मः-ग्रीष्मातिस्तेन तप्ता-उष्णीभूता अन्तरं-हृदयं तदेवावनिः-पृथ्वी... पुद्गलद्रव्येषु इष्टानिष्टता परिणामजन्योष्णतयोत्तप्तहृदयभूमिरित्यर्थः, अशमत्तमाम्-अत्यन्तं शान्तेत्यर्थः ।
यन्मनोवाटिकावन्मैत्रीमोदेन वासितम् । शासनं संयतैः सर्वैः एकीभूयाप्यतिमुदा ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org