________________
गुप्तक्रियापदात्मिका श्रीगुरुस्तुतिः
४०९
यन्मनोवाटिकेति-यस्य- पूर्वोक्तसद्गुरोः, मन:- मानसम् एव वाटिकाउद्यानं ज्ञानादिगुणपुष्पोत्फुल्लत्वात् तस्याः स्रुवन् - प्रसरन् यो मैत्रीसर्वजीवेषु आत्मौपम्यं सँव मोदः-सौरभस्तेन, शासनं - प्रसिद्धं चतुर्विधसङ्घरूपं वा वासितम्सौरभितम्, सर्वैः-अखिलैः तपोगच्छाचल-पार्श्वचन्द्रगच्छस्थितैः अन्यान्यसमुदायवर्त्तिभिश्च संयतैः - श्रमणैः, एकीभूय - संमिल्य, अति - अत्यन्तं मुदा - हर्षः आपि - प्राप्यते स्मेत्यर्थः ।
सेनानीभूय यत्प्रज्ञाहिनन्मौनीं मिथोऽरिताम् । जीयाद् विश्वाम्बरे तस्य सदाक्षयो यशोरविः ॥७॥
सेनानी भूयेति.. यत्प्रज्ञा - यस्य पूर्वोक्तसद्गुरो: प्रज्ञा- नवनवोन्मेष - शालिनी प्रतिभा सेनानीभूय - सेनानी: सेनां नयतीति सेनापतिः भूत्वा, मौनीं मुनीनांसाधूनाम् इयम् “तस्येदम् " ( सि. हे. ६ । ३ । १६० ) इति सूत्रेणाण् तत्पश्चात् ङी, मौनी तां मुनिसम्बन्धिनीमित्यर्थः मिथः - परस्परम् या अरिता-रिपुता पृथक्त्वभावरूपा वा, साधनाक्षेत्रे मानसिकभेदरेखापि साधनारोधिका भवतीत्यतः शत्रुस्वरूपा कथितेति ताम्, यः अहिनः - छिनत्ति स्म यद्वा येन पारस्पर्यं मैत्री स्थापिता... तस्य - सद्गुरुदेवस्य, यशोरविः - यशः - कीर्त्तिरेव रविः - सूर्य:, विश्वाम्बरेविश्वं जगत् एव अम्बरं - नभस्तस्मिन्, सदा-सर्वदा, अक्षयः क्षयो विनाशो अस्ततारूपो नास्ति यस्य... सदैव नूलरूपो निरस्तः सन् जीयात् - जयत्वित्यर्थः । नमो नमोऽस्तु मे भद्र ॐकारगुरुयुग्म । नः । भवत्पुनितपादाब्जे रम्यरेणूभवान्यहम् ॥८॥
नमोनम इति....हे भद्रॐकारगुरुयुग्म । सर्वसत्त्वानां भद्रकारित्वात् भद्रः, परमेष्ठि ध्यानलीनत्वाद् ॐकारः इति पुनिताभिधानं ययोस्तौ गुरू परभावान्धकारात्त्रायकत्वाद् अनन्योपकारिणौ... तयोः युग्मं द्विकः तत्संबोधनम् । नः - युष्मभ्यं, मे-मम, नमोनमः - भूयोभूयोऽविरतत्वेन नमस्कारः - मनोवाक्काययोगेन वन्दनमस्तु-भवतु । आशंस इत्यध्याहार्यम्, अहं भवच्छरणाश्रितार्या भवत्पुनितपादाब्जे-भवतामायुष्मताम् पुनितौ- पवित्रौ पादौ चरणौ एव अब्जम् पङ्कजं तस्मिन् रम्यरेणूभवानि रम्या - सुन्दरतमा
-
रेणु :- रजोरूपा भवानि -
भवेयमित्यर्थः ।
Jain Education International
55555
For Personal & Private Use Only
-
www.jainelibrary.org