________________
का गुप्तक्रियापदात्मिका श्रीगुरुस्तुतिः
___(रम्यपदभञ्जिकावृत्तिः) यस्य हृत्सागरोच्छालि-कारुण्यवारिणा गुरोः । भवान्तरोच्चितावद्य-मलनोऽपास्थदन्तरात् ॥१॥
यस्येति...यस्य-श्रीभद्रसूरीश्वर - श्रीॐकारसूरीश्वराभिधस्य गुरोःसद्गुरोः, हृत्सागरोच्छालिकारुण्यवारिणा-हृदयम्-अन्तःकरणमेव सागरःसमुद्रस्तस्मात् उच्छलति उल्लोलयतीति हृत्सागरोच्छालि...तादृग् कारुण्यंकरुणारसः एव वारि-नीरं तेन, न:-अस्माकम् , अन्तरात्-हृदः, भवान्तरोच्चितावद्यमलम्-भवान्तरम्-अन्यो भवः...जन्मजन्मान्तरं वा तस्मिन् उच्चितंप्राबल्येनैकीकृतं यद् अवयं-पापमेव मलं-किट्टम् तद् अपास्थद्-दूरं गतं विनष्टमित्यर्थः...॥
वात्सल्यवात्ययापार, यन्नेत्रमलयतया । अस्मत्तनुमनस्तापः, शाताश्वदात्मिका सदा ॥२॥
वात्सल्यवात्ययेति.....यन्नेत्रमलयतया यस्य-पूर्वोक्तनाम्नः सद्गुरोः ये नेत्रे- नयने ते एव मलयः- मलते चन्दनवृक्षान् यत्र मलयो दक्षिणाचलस्तन्नामाचलविशेष इत्यर्थः, तस्मात् मलयाचलात् एता-आगता तया, वात्सल्यवात्यया वात्सल्यं-वत्सलता पुत्रवत्स्नेह भावो वा तदेव वात्यावायुलहरी तया, अस्मत्तनुमनस्तापः--अस्माकं छद्मस्थत्वाद् अशातादुर्भावादिजन्यो यः तनोः शरीरस्य मनसश्च मानसस्य तापः- दु:खजन्योद्वेगः-अपार-पारंगतः । यथा मलयाचलादागतो वायुः तनुसम्बन्धितापो हरति तथैव सद्गुरुनेत्रावहद्वात्सल्यमस्मादृशानेकात्मनां दुःखोद्वेगहारि भवतीत्यर्थः । तथा, सदा-सर्वदा आत्मिका-आत्मसम्बन्धिनी शाता-सुखम् अश्वद्-अवर्धत वृद्धिंगतेत्यर्थः ॥
यत्प्रतिलोमतो निर्यत्साधनोर्जा सुखावहा । प्रमादध्वान्तमासान्नो रोमरोमाशितं ननु ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org