________________
४०६
श्रीदानोपदेशमाला
आत्मा तस्मिन् रतिः- रमणम् आत्मरमणमित्यात्मगुणमात्रेषु संचरणम्, सैव वात्यावातानां समूह : 'पाशादेश्च ल्यः' (सि.है.६।२।२५ ) इति सूत्रेण ल्यः, महावातस्तया, प्रमादादिरजः-प्रमादा:-प्रमाद्यन्ते मोक्षं प्रत्येभिरिति..ते चाष्टौ अज्ञानादयः (दृश्यतामे तद्ग्रन्थस्य गाथा ९८) त आदौ येषां तद् । आदिशब्दात् कषायविषयादयो ग्राह्यास्तदेव रजो धूलिः, आत्मनः मलिनी कारकत्वात् , अहारि-हियते स्म...पुनश्च शुद्धिकरणार्थं शुद्धद्रव्यवतः समीपे गम्यतेऽत एव तव-भवतः, शरणम्-आश्रयम् अहम् आयम्-आगच्छम् । अथैतया-स्वरतिवात्यया एतद्धूलि:-प्रमादादिपांशुः क्षार्या दूरीकार्येति........ ।
समत्वं शत्रु-मित्रे ते, प्रार्थये पार्श्व ! देहि मे । आशंसे पूज्यपादाब्जे, रम्यरेणुरसानि ते ॥८॥
समत्वमिति-पार्श्व ! हे पार्श्वप्रभो ! त्रयोविंशतितमतीर्थपते !, ते-तव, शत्रुमित्रे-शत्रु:-रिपुः प्रतिकूलप्रवृत्तिमान् वा मित्रं-सखा अनुकूलप्रवृत्तिमद्वा एतयोः समाहारः शत्रुमित्रं तस्मिन् यत् समत्वं-सदृम्भावस्तत्, प्रार्थयेयाचेऽहमिति शेषः । पार्श्वप्रभोः समत्वं प्रसिद्धमेव यदुक्तम्
कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति ।। प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥
(श्रीसकलार्हत्स्तोत्रम्-२५) आशंसे-ईहे ऽहम् , ते-आयुष्मतः पूज्यपादाब्जे-पूज्यौ-पूजनीयौ पादौ-चरणौ एव अब्जम्-पङ्कजम् , तस्मिन् रम्यरेणुः-सुन्दरधूलिः असानि भवानीति..।
॥ अहँ नमः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org