________________
महागुणाष्टक गर्भित-श्रीपार्श्वजिनस्तुतिः
४०५ परौदासीन्यजाङ्गल्या-परेषु- परद्रव्य-क्षेत्र काल-भावेषु औदासीन्य मुपेक्षाभावः, अथवा परम् - उत्कृष्टतमम् औदासीन्यं स्वद्रव्यादेरन्यद्रव्यादिषु उदासीनता...तदेव जाङ्ग ली गारु डिकमन्त्रविशेषस्तया, ते - तव, राग-द्वेषविषापहत्-- रागःमानसाभीष्टद्रव्ये प्रीतिः, द्वेषः-मनोऽनिष्टद्रव्येऽप्रीतिः, तावेव विषं-हालाहलम् अपहरति दूरीकरोतीति...इष्टानिष्टद्रव्येषु मनोजन्यहर्ष-शोकमयमानसपरिणामनाशक इत्यर्थः, अभू:-आसी:, तया- पूर्वोक्तपरौदासीन्यजाङ्गल्या, मम-रागद्वेषविषोपहतस्य निजसेवकस्य, रक्तद्विषागरं-रक्तो-रागः द्विषा-द्वेषस्ते एव गरं-गरलम्, उदस्ये:संहरेरिति ।
स्वस्वरूपार्चिषानात्म-भावध्वान्तं परैत्तव । तद्राया मे विभावान्ध-कारो दूरीभवेद्यतः ॥६॥
स्वस्वरूपेति..हे नाथ ! इति गम्यम् स्वस्वरूपार्चिषा-स्वस्य-आत्मनः शुद्धात्मद्रव्यस्य स्वरूपं -स्वभावः शुद्धात्मरूपमित्यर्थः । तदेव अर्चि:ज्योतिस्तेन, तव-भवतः, अनात्मभावध्वान्तम्-अनात्मभावः-आत्मनः भावःतादृग् नेत्यतः आत्मस्वरूपविरहितत्वं पुद्गलादिद्रव्यनिगृहीतात्मलक्षणं स एव ध्वान्तं-तमः, यथान्धकारेऽन्यद्रव्यमन्यद् ज्ञायते तथैव अनात्मभावनामान्धकारेऽपि देह-दैहिकधर्मस्य आत्मात्मिकधर्मत्वेन दृश्यतेऽतः सोऽन्धकारशब्देनोपमीयते । तादृक् तामसं परैत्-परा - समन्तात् , ऐत्अगच्छद् दूरीभूतमित्यर्थः, मे-मह्यम् , तद्-स्वस्वरूपार्चिः, रायाः-देयाः, यतः-यस्मात् स्वरूपप्राप्तिरूपज्योतिषः, मे-मम देहलीदीपकन्यायात् मे इति द्विधा योजनीयम् । विभावान्धकार:-विभावः-विरुद्धो शुद्धात्मद्रव्याद् विपरीतो भावः-स्वरूपम् आत्मनो ह्यशुद्धरूपमित्यर्थः, स एवान्धकारस्तमः दूरीभवेद्-अपगच्छेदिति.......।
प्रमादादिरजोऽहारि, स्वरतिवात्यया त्वया। तवायं शरणं मेऽर्हन् ! क्षार्यैतद्धूलिरेतया ॥७॥
प्रमादादीति- हे अर्हन् - अर्हति चतुस्त्रिंशदतिशयान् सुरेन्द्रादिकृतपूजामिति तीर्थंकरस्तन्निमन्त्रणम् । त्वया--भवता, स्वरतिवात्यया-स्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org