________________
४०४
श्रीदानोपदेशमाला निगृह्य मौनतो वाचं, नाथारुणोऽशुभाश्रवात् । तथा वाचालुताग्रस्तां, तद्राह्यवाश्रवाद् विभो ! ॥३॥
निगृह्येति.......विभो ! स्वामिन् ! यथेत्यध्याहार्यम् । मौनतः मौनं तूष्णीभावं वचोगुप्तिपालकत्वात् अवलम्ब्य यबन्तस्य गम्यत्वात् 'गम्ययपः कर्माधारे" (सि.हे.२।२।७४) इति सूत्रात् पञ्चमी । वाचं-जल्पनं, निगृह्यसंपूर्णतया निरुध्य, त्वम् अशुभाश्रवाद्-अशुभानां अकुशलकृत्कर्मणां ज्ञानावरणीयादीनां वा आश्रवात् आगमनात् , अरुणः-निवृत्तः । तथातयैव रीत्या, मह्यमिति शेषः, तद्-मौनं, राहि-देहि....वाचालुताग्रस्तांवाचालुता-जल्पनशीलता तया ग्रस्तां पीडितां मामिति च गम्यम् आश्रवाद्अशुभकर्मागमनत्वाद् अव-रक्षेति ॥
ध्यानं तेऽहन्यथा वज्री-भूय कर्माचलं प्रभो ! । सद्ध्यानाशनिनास्यारं, कर्माद्रिं तेऽनुगस्य मे ॥४॥
ध्यानमिति...प्रभो ! तारकत्वशक्तिशालिन् ! हे भगवन् ! यथा-येन प्रकारे ण, ते-तव, ध्यानं- ध्यायते चिन्त्यते द्रव्य-गुण- पर्यायस्वरूपाद्यनेनेति... चिन्तनं धर्म-शुक्लध्यानात्मकं ग्राह्यं तयोरेव कर्मविनाशकत्वात् , आद्यद्वयोस्तु कर्मग्रहणहेतुत्वान्न गृह्यते । तादृक् ध्यानं वज्रीभूयवज्ररूपेण भूत्वा कर्माचलं-कर्म क्रियते बध्यते मिथ्यात्वाविरतिकषाययोगैः...ज्ञानावरणीयादि...तदेव अचलो न चलतीति नगः पर्वत इत्यर्थस्तम् अह न् - अखण्डयः । तथेति शेषः ते -- भवतः, अनुगस्य- अनु पश्चाद् गच्छति सरतीति अनुगः-सेवकः आज्ञानुसारी दासो वेत्यर्थस्तस्य, मे-मम, कर्मादि-कर्मशैलम्, सद्ध्यानाशनिना सद्ध्यानं-सद् शुभं यद् ध्यानंधर्मशुक्लात्मकं तदेव अशनिः वज्रं तेन, अरं--तत्कालम् , आस्य-आ समन्तात् स्य भिन्धीति......।
परौदासीन्यजाङ्गल्या, रागद्वेषविषापहृत् ।। यद्यभूस्ते ममोदस्ये, रक्तद्विषागरं तया ॥५॥ परौदासीन्येति-हे स्वामिन् ! इत्यध्याहार्यम् , यदि-चेत् ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org