________________
महागुणाष्टकगर्भित - श्रीपार्श्वजिनस्तुतिः
(रम्यपदभञ्जिकावृत्ति: ) परार्थवासनास्यासीत् स्वार्थलताच्छिदे तव । तयैवाद्यातिवर्धिष्णुं स्वार्थवल्लीं ममामूलम् ॥१ ॥
परार्थवासनेति....श्रीपार्श्वप्रभो ! इत्यामन्त्रणमध्याहार्यम् । तव - भवतः, परार्थवासना-परोपकार प्रकृष्टता... निगोदावस्थात: सिद्धावस्थां यावत् परोपकृतिप्रकृतिः आयुष्मदात्मनः प्रतिप्रदेशे एकरसीभूता तत एव एषा वासना कथिता... से ... सैव परोपकारप्रवणता एव स्वार्थलताच्छिदे - स्वार्थ: निजकार्यकारिता स एव लता - वल्ली तस्याः छिद्-छेदनं तस्यै, अस्यासीत् खड्गीभूता । तयैव... परोपकृतिप्रकृत्यैव, मम - अनादिस्वार्थमूलदृढीकरणशीलस्य, तव सेवकस्य, अतिवर्धिष्णुं - जन्मान्तरे तृष्णाजलेन अतिसिक्तत्वादत्यन्तवर्धनशीलाम्, स्वार्थवल्ली - निजकार्यकरणशीलतात्मिकां लताम् आमूलम् - मूलादेव आद्य- आ समन्तात् द्य- छिन्धीति... ।
सत्त्वयन्त्रेऽहिनो नाथ ! परिषहादिधान्यकम् । ततो दाह्याशु मेऽनादि - देहाध्यासान्नमार्तिदम् ॥२॥
सत्त्वयन्त्र इति...नाथ ! योगक्षेमकृत्परमात्मन् ! सम्यग्दर्शनादिनूतनगुणानां प्रापकत्वात् प्राप्तसम्यग्दर्शनादिगुणानां च संवर्धकत्वात् परमात्मा नाथस्तन्निमन्त्रणे.... हे नाथ ! त्वमित्यध्याहार्यम् । सत्त्वयन्त्रे सत्त्वम् - आत्मवीर्यं तदेव यन्त्रं यन्त्र्यते पील्यतेऽनेनेति... पिष्टकरणसाधनं तस्मिन्, परिषहादिधान्यकम् - परिषहा:- क्षुत्तृषादि द्वाविंशतिविधाः मनोवच: कायसंबन्धिकष्टानि वा आदिशब्दात् उपसर्गा देवमनुजतिर्यक्कृता गृह्यन्ते तद्रूपं धान्यकम्-अन्नम्, अहिन:-चूर्णितवान्, ततः तस्मात् सत्त्वयन्त्राद् एव मे - मम, आर्त्तिदम्आर्त्तिं बाधां ददाति करोतीति आत्मपीडाकृत्, अनादि- देहाध्यासान्नम्-अनादिः - नास्ति आदिः आरम्भो यस्य सः अनादिकालीनः देहाध्यासः, देहो देहधर्मो वा आत्मा आत्मधर्म इव अध्यास्ते मन्यतेऽस्मिन् स देहाध्यासो भण्यते, स एव अन्नं धान्यम्, आशु शीघ्रं, दाहि चूर्णीकुरु इति .... ।
--
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org