SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४०० श्रीदानोपदेशमाला (गाथा.१०७) पल्योपमानि जलधिप्रमितान्यथायुभॊगैरभङ्गरतरैः परिपाल्य तत्र । च्युत्वा ततो वरविदेहभुवं स एत्य, रत्नत्रयं समुपलभ्य च मुक्तिमाप्ता ॥ ८५॥ (वसन्ततिलका) इत्थं केशिगणेश्वरेण विधिवत्सज्ज्ञानदानं मुदा, न्यस्तं क्षोणिपतौ प्रदेशिनि महासाफल्यकोटिगतम् ॥ ज्ञात्वान्यैरपि विज्ञपुंगवगणैः कार्यं तदेवानिशम्, येनाक्षीणतमा भवन्ति भविनः सद्योऽनवद्याः श्रियः ॥ ८६ ॥ (शार्दूलविक्रीडितम्) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ सज्ज्ञानदानविषये श्रीकेशिगणधरकथा समाप्ताः ।। ज्ञानदानमुक्त्वा सकलप्रकरणार्थं निगमयन्नाहएवं पंचविगप्पं दाणं भावेण जो पयच्छेइ । सो पाउणेइ णरसुरसुहाई अणुहविय सिद्धिपयं ॥ १०६॥ एवममुना प्रकारेण, पञ्चविकल्पं-सुपात्रोचितानुकम्पाभयज्ञानभेदेन पञ्चप्रकारं दानम्, भावेन-मन:शुद्धया, य:-श्रद्धालुः प्रयच्छति, स पुमान्नरसुरसुखानि-मनुष्यदेवसौख्यान्यनुभूय-भुक्त्वा, सिद्धिपदंनिर्वृत्तिस्थानम् , प्राप्नोति-लभत इति गाथार्थः ।। अथ ग्रन्थसमाप्तौ कविनामगर्भा मङ्गलाशिषमाहइइ संघतिलयगणहरसीसेण दिवायरेण रइएयं । दाणोवएसमाला, कण्ठगया कं ण भूसेइ ॥१०७॥ व्याख्या-इत्यमुना प्रकारेण श्रीसंघतिलकगणधरशिष्येण दिवाकरेण रचिता-कृतेयं दानोपदेशमाला-दानोपदेशकुसुमदाम कण्ठगतागलकन्दलस्थिता कं-भविकं न भूषयति? अपि तु सर्वप्रकारेणा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy