________________
श्रीज्ञानदानविषये श्रीकेशिगणधर-प्रदेशिनृपकथा
३९९ केशिनोऽवाप्तसज्ज्ञानदानदीपेन नाशयन् । स मिथ्यात्वतमो धर्मोद्योतं चक्रे स्वमण्डले ॥ ७३ ॥ धर्मचक्रेण चक्री च प्रसारिमहसा भृशम् । अजैषीद्विषयानेष बाह्यानाभ्यन्तरांस्तथा ॥ ७४॥ जिनधर्मानुरक्तात्मा, पालयन् द्वादशवतीम् । सोऽग्रहीत् पौषधं पर्वतिथिवृन्दे निरन्तरम् ॥ ७५ ।। क्वापि शून्यगृहेऽन्येद्युः पौषधप्रतिमास्थितः ।। राजान्यपुरुषासक्तां सूर्यकान्तां निजां प्रियाम् ॥ ७६ ॥ प्रविलोक्यापि न ध्यानाच्चचालाचलनिश्चलः ।। विशिष्य च पुपोषासौ विशुद्धां भावनामिमाम् ॥ ७७॥ युग्मम् ।। कायोऽपि न भवेत्स्वीयः का कथा चाऽन्यवस्तुषु । इति ध्यायन्नृपस्तस्यां, न चुकोप मनागपि ॥ ७८॥ सविटा सूर्यकान्तापि, स्वकान्तं प्रतिमास्थितम् । प्रगे प्रवीक्ष्य साशङ्का गृहं गत्वेत्यचिन्तयत् ॥ ७९ ॥ मा मामन्यरतां मत्वा, विगोपयेदयं जने । अतो नृपाय पापादात्पारणे विषमोदकम् ॥ ८०॥ स कायव्याकुलत्वेन, सूर्यकान्ताविचेष्टितम् । ज्ञात्वा ददौ निजं राज्यं, सूर्यकालाय सूनवे ॥ ८१॥ अरक्तद्विष्टचित्तोऽसौ परमेष्ठिनमस्कृतिम् । चिन्तामणीमिवानढूं, स्मरन्नेकाग्रभावतः ॥ ८२॥ मृत्वा प्रदेशिभूपालः, सौधर्मे त्रिदशालये । श्रीसूर्याभविमानेऽभूद्देवः सूर्याभनामकः ॥ ८३॥ युग्मम् ॥ स एष सूर्याभसुरोऽद्भुतश्री:, स्वपूर्वजन्मावधिनाधिगत्य । अत्रैत्य हे गौतम! नाटकं वः, प्रदर्श्य हर्षाच्च दिवं जगाम ॥८४ ॥
(उपजाति:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org