________________
३९८
श्रीदानोपदेशमाला (गाथा.१०५) मूर्तानामपि सूक्ष्माणां, भावानां गतिमीदृशीम् । समीक्ष्यात्मन्यमूर्ते सा राजन्! किं न प्रपद्यते ॥ ६१॥ कर्मबद्धे महावीर्ये, पुण्यपापोपभोक्तरि । सूक्ष्मे ज्ञानमये जीवे, किमु संदिह्यते त्वया ॥ ६२ ॥ तस्मात्परंपरायातं, मुक्त्वा नास्तिकतामतम् । चतुर्वर्गश्रियां पात्रं, जैनं शासनमाश्रय ॥ ६३॥ एवं केशिवचोमुग्धदुग्धेन क्षालयन्नलम् । सन्देहौघमषीमेष, निर्मलत्वमवाप राट् ॥ ६४॥ ततोऽस्तनास्तिकमतमतिः स पृथिवीपतिः ।। प्रदेशी केशिनामानमिति स्तोतुं प्रचक्रमे ॥ ६५ ॥ नाथ! त्वमेव मे तातस्त्वमेव जननी परा । त्वमेव परमो मित्रं, त्वमेव हि सहोदरः ॥ ६६॥ त्वमेव च गुरुर्येन, त्वयाहं भववारिधौ । सज्ज्ञानदानपोतेन तारितः कृपया ब्रुडन् ॥ ६७ ॥ तदिदानीमपि स्वामिन्! दयामय! दयां मयि । विधाय दिश तं धर्मं, येन मुच्येय पापतः ॥ ६८॥ अहो सुलब्धं मानुष्यजन्म ते नृपते! त्विति । उपबृंह्य गुरुस्तस्य, पुरस्तादेवमादिशत् ॥ ६९॥ जिनो देवो गुरुः पञ्चमहाव्रतधरः परः । जिनोदितश्च सिद्धान्त, इति रत्नत्रयं श्रय ॥ ७० ॥ एतन्मूलानि पापस्य प्रतिकूलानि भूपते! । स्वानुकूलानि सुश्राद्धव्रतानि द्वादशाश्रय ॥ ७१ ॥ भावेन तान्युपादाय, गुरुं नत्वा च मन्त्रियुक् । मन्वानो धन्यमात्मानं, राजा प्रासादमासदत् ॥ ७२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org