________________
श्रीज्ञानदानविषये श्रीकेशिगणधर-प्रदेशिनृपकथा
३९७ अन्यच्च पञ्च चत्वारि, योजनानां शतानि वा । भूदुर्गन्धः प्रयात्यूचं, तन्नायान्तीह देवताः ॥ ४९ ॥ तपस्वितपसाकृष्टा जिनकल्याणकेषु वा । जन्मान्तरस्य च प्रीत्यायान्ति देवा न चान्यथा ॥ ५० ॥ पुनराह गुरुं राजा, चौरः कुम्भान्तरे मया । क्षिप्त्वा पिधाय तद्द्वारं स्वापितः स्वापतेयवत् ॥ ५१ ।। समये स मयादर्शि, निश्चेष्ट: कृमिसंकुलः । नात्मा निर्गममार्गश्च, प्रवेशश्च परात्मनाम् ॥ ५२ ॥ चूर्णीकृत्य पुनस्तस्मिन्, कणशः प्रविलोकिताः । नोपलेभे मया क्वापि, जीवो व्योमारविन्दवत् ॥ ५३॥ चौरोऽन्यदा मयातोलि, रुद्ध्वा श्वासं च मारितः । पुनश्च तोलितस्तावानेवात्मा नास्त्यतः क्वचित् ॥ ५४॥ पूर्वपक्षममुं कृत्वा प्रदेशिनृपतौ स्थिते । तत्संदेहापनोदाय सूरिरित्युत्तरं ददौ ॥ ५५ ॥ कुम्भ्यां स्थगितवक्त्रायां, क्वाप्यन्तस्थो नरो नृप! । शङ्ख धमति तन्नादः, कथमाश्रूयते बहिः ॥ ५६॥ ध्वनेः पुद्गलरूपस्य, सुसूक्ष्माः पुद्गला यथा । कुम्भी भित्त्वा बहिः सत्रुस्तन्मार्गोऽस्यां च नेक्ष्यते ॥ ५७॥ तथैव मूर्त्तिमानात्मा बहिः कुम्भ्या विनिर्गतः । लक्ष्यते न हि सूक्ष्मत्वाद्, ध्वनिपुद्गलवन्नृप! ॥ ५८॥ सन्नप्यग्निर्यथाच्छिन्नेऽरणिकाष्ठे न दृश्यते । तथैव प्राणिपिण्डेऽपि, जीवसत्ता महीपते! ॥ ५९॥ यथा रिक्ता च पूर्णा च, वायुना तोलिता दृतिः । समा तथा तनुजी वे, सत्यसत्यपि भूपते! ॥ ६० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org