________________
श्रीदानोपदेशमाला (गाथा. १०५)
३९६
तारतम्येन दृश्यन्ते, ज्ञानानि प्राणिजातिषु । अतो मूढ ! तदाधारमात्मानं स्वीकरोषि न ॥ ३७॥ इदं भुक्तमिदं पीतं ह्यो मया विहितं त्विदम् । तच्चात्मानं विना कोऽन्यो, मूर्ख ! रे! स्मर्तुमर्हति ॥ ३८ ॥ स एव गच्छति श्वभ्रं, पापव्यापारकारकः 1
स एवोर्ध्वगतिं याति, धर्मध्यानपरायणः ॥ ३९॥ स एव शुक्लध्यानाग्नौ कर्मेधान् भश्मतां नयन् । सर्वज्ञतां समासाद्य लभते च परं पदम् ॥ ४० ॥ सर्वज्ञस्याविसंवादिवाक्यत्वादाप्तता मता 1
यतस्तदुक्तसूर्येन्द्वोर्ग्रहणस्य तथेक्षणात् ॥ ४१ ॥ अतः प्रमाणसंसिद्धसर्वज्ञादिष्टवर्त्मनि ।
भो ! भो ! भव्याः ! प्रवर्त्तध्वम्, शिवश्रीसंगदायिनि ॥ ४२ ॥ इति त्वद्देशनां श्रुत्वा राजा सचिवसंयुतः । संदेहदोलामारूढः, सभायामाययौ गुरोः ॥ ४३॥ सूर्यालोकनतस्तस्य, नृपस्य मुखपङ्कजम् । विस्मेरत्वमवाप्येत्युल्लासयामास वाङ्मधु ॥ ४४॥ सूरे! नास्तिकवादी मे, जनको नरकं ययौ । माता सर्वज्ञधर्मज्ञा, दिवं चेति भवन्मतम् ॥ ४५॥ नापरस्मिंस्तथा प्रीतौ पितरौ मे यथा मयि ।
युग्मम् ॥
तस्मादेत्य यथा युक्तं, किं न ब्रूतो हितं हि तौ ॥ ४६॥ गुरुराह कथं श्वभ्रात्पराधीनो जनो नृप ! ।
समेति कर्मभिर्बद्ध, आलानितगजेन्द्रवत् ॥ ४७ ॥ भोगाभोगैः सदासक्ता देवा देवालयान्नृप ! | परानपेक्षव्यापाराः, समिप्रति कथं भुवि ॥ ४८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org