________________
श्रीज्ञानदानविषये श्रीकेशिगणधर-प्रदेशिनृपकथा
नाशां विकूणयन्नाह नृपः सचिवपुंगवम् । नीरसोऽसौ प्रसार्यास्यं, खरवद्रारटीति किम् ॥ २५॥ सचिवोऽप्यूचिवान्नाथ ! गत्वामुष्यैव सन्निधौ । एतद्वचनविन्यासनिर्णयः प्रविधीयते ॥ २६॥ तद्वचः प्रतिपद्यायं राजा गुर्वन्तिकं गतः I श्रीकेशिगणराजस्य, देशनामशृणोदिमाम् ॥ २७ ॥ तत्त्वातत्त्वमविन्दन्तो भिन्दन्तो धर्मवर्त्म च 1 असद्वासनया मूढा हारयन्ते हहा जनुः ॥ २८॥ जीवाः कदाग्रहग्रस्ता व्यतीक्ष्यन्तेऽखिलं जगत् । रसासृग्मांसविस्राङ्गीं रागान्धा इव भामिनीम् ॥ २९ ॥ पतन्ति नरके घोरे, सत्त्वाः कुमतमादृताः । न पुनस्तत्त्वमाश्रित्य भजन्त्यूर्ध्वगतिश्रियम् ॥ ३०॥ एकान्ताध्यक्षवादेन, कथंकारं जडाशयः 1 सर्वप्रमेयवस्तूनां निर्णयं कर्तुमीश्वरः ॥ ३१॥ सूक्ष्मान्तरितदूरस्थानात्मादीन् योगिगोचरान् । अपश्यन्नन्धवद् मुग्धः कथं जानाति नास्तिक: अत्यन्ताचेतनेभ्योऽयं, भूतेभ्यो ज्ञप्तिसंभवम् । ध्रुवन्निच्छेद् ध्रुवं षण्ढादपत्यप्रसवं जडः ॥ ३३॥ प्रत्यक्षानुपलब्धत्वान्नास्त्यात्मेति गदन्नयम् । वादिभिर्हन्यते किं नो अनुमानादिवादिभिः ॥ ३४ ॥ तथाहि-यथा तेजस्विनं तेजः समाश्रयति निश्चितम् । तथेच्छाद्वेषबुद्ध्यादि कामप्याधारसंगतिम् ॥ ३५ ॥ यथा धूमध्वजः शैले धूमदृष्ट्यानुमीयते । तथात्मापि ध्रुवं लिङ्गी लिङ्गैरिच्छासुखादिभिः ॥ ३६॥
॥ ३२॥
Jain Education International
For Personal & Private Use Only
३९५
www.jainelibrary.org