________________
x१
ग्रन्थकर्तुः गुरुपरंपरादिः
४०१ लङ्करोति। यथा किल माला पुष्पस्रक् कण्ठगता प्राणिनं भूषयति तथेयमपि दानोपदेशमाला-दानोपदेशश्रेणिः कण्ठगता अर्थादधीता सती प्राणिनं मण्डयतीति गाथार्थः। समाप्ता चेयं दानोपदेशमालाप्रकरणवृत्तिः॥ श्रीशुभं भवतु॥ विक्रमादित्यतोऽष्टेन्दुवार्डीन्दुमितवत्सरे । चक्रुर्देवेन्द्रसूरीन्द्रा वृत्तिमेतां मनोहराम् ॥ १॥ (१४१८) यदिह मया मतिमान्द्यात् किमप्यसंबद्धभाषणं व्यरचि । तच्छोधयन्तु सुधियो दयामया मयि दयां कृत्वा ॥२॥ एतत्प्रकरणविवरणकरणाद्यत्पुण्यमनघमार्जि मया । तेन मम निखिल-मङ्गलदायी वरबोधिलाभोऽस्तु ॥३॥ (आर्या) यावन्नभःसरसि तारकपद्मभाजि, सद्राजहंसयुगलं खलु खेलतीह । तावन्मुनीश्वरगणाः परमादरेण, टीकामिमामनुपमां परिशीलयन्तु ॥४॥ ग्रन्थाग्रम्-५३३८॥
(वसन्ततिलका) श्रीवृद्धगच्छे वादीन्द्राः, श्रीमुनीश्वरसूरयः ।। तेषां विनेयो व्यलिखन्मुनिहर्षः सहर्षधीः ॥ १॥ श्रीविक्रमार्कात्समयाधुगंदिग्गजसागरेन्दुमितशरदि । (१४८५) सश्रेयसे कृतेयं पुस्तकरचना चिरं जीयात् ॥२॥ शुभम् ॥ लिपीकृतं लैया श्रीराममुथाः रेवासी अईपुरमध्ये ॥ विक्रम संवत् १९६६ रा: मिती सावणवदी १०, सोमवार ॥
॥ अथ प्रशस्तिः ॥ अस्ति स्वस्तिमती सदा विजयिनी दर्भावती पावना । श्रीमद्गुर्जरदेशभूमिवनितालंकारहारोपमा ॥ श्रीमल्लोढणपार्श्वनाथप्रमुखार्हन्मन्दिरैरष्टभिः, शोभाढ्या जनसंकुला सुविदिता, वप्रेण विश्वेऽखिले ॥१॥ (शार्दूलविक्रीडितम्) १. अस्य ग्रन्थस्येयं सङ्ख्यास्ति, ख-ख बाणबाणेतिसंख्यास्ति ग्रन्थाग्रस्वभाषायां-५५००॥
४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org