SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३९३ श्रीज्ञानदानविषये श्रीकेशिगणधर-प्रदेशिनृपकथा भावार्थः कथानकगम्यस्तच्चेदम्श्रीमत्यामलकल्पास्ति पुरी भरतभूषणम् । यत्र कल्पद्रुमायन्ते दानेन धनिनो जनाः ॥ १॥ तत्रार्क इव सर्वत्र हर्षकृच्चरमो जिनः । बोधयन् गोविलासेन, महीपञ समागमत् ॥ २॥ तत्र वृन्दारकाश्चक्रुर्भगवद्देशनासदः । तदन्तश्चासनासीनः, स्वामी व्याख्यानमातनोत् ॥ ३॥ देशनान्ते दिवोऽभ्येत्य श्रीसूर्याभाभिधः सुरः । प्राञ्जलिः प्रभुमानम्य सम्यग् विज्ञप्तवानिति ॥ ४॥ प्रभो! यद्यनुजानीषे मां तदा भक्तियुक्तितः । गौतमादिमुनीन्द्राणां, नाटकं दर्शयाम्यहम् ॥ ५॥ सुरेणोक्तं त्रिरुक्तोऽपि नाजल्पत् किमपि प्रभुः । तेन चावारणाज्जातं, स्वामिनानुमतं ह्यदम् ॥ ६॥ ततः स दिशमैशानीं गत्वा देवः स्वदोर्युगात् । अष्टोत्तरशतं देवान् देवीश्च निरकाशयत् ॥ ७॥ वेणुवीणामृदङ्गादिवादित्रध्वनिबन्धुरम् । द्वात्रिंशद्बद्धकं नाट्यं स तेभ्यो निरमापयत् ॥ ८॥ मुनीनां दर्शयित्वासौ नाट्यं भुवनमोहनम् ।। प्लवङ्गम इवोत्प्लुत्य सूर्याभः स्वरगात्पुनः ॥ ९॥ अथेन्द्रभूतिर्भून्यस्तमस्तकः स विदन्नपि । श्रीवीरजिनमप्राक्षील्लोकबोधनहेतवे ॥ १०॥ स्वामिन्! कोऽयं सुरः कस्मादस्य बोधिरुपार्जनम् । जगदाश्चर्यकारिण्यः कुतोऽमुष्य च संपदः ॥ ११॥ प्रभुरप्यभ्यधात् वत्स! समाकर्णय गौतम! । इहास्ति श्वेतवीनामपुरी सुरपुरीसमा ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy