________________
३९२
श्रीदानोपदेशमाला (गाथा. १०५)
वितरति, तेन पुण्यात्मना जिनशासनाव्युच्छित्तिः- श्रीमदर्हत्प्रवचनानवरतप्रवर्त्तनं कृता विहितेति गाथार्थः ॥
पुस्तकदानात् किं भवतीत्याह
सिद्धंतपुत्थयाणं लेहिय पढणाय देइ समणाणं । जो तेण सयलभवणे, धम्मपवा वाहिया णूणं ॥ १०४ ॥
व्याख्या-यः श्रुतभाक् सिद्धान्तपुस्तकानि लिखित्वा लेखयित्वा वा श्रमणेभ्यः पठनाय ददाति तेन धार्मिकेण सकलभुवने नूनं - निश्चितं धर्मप्रपा वाहिता - प्रवर्त्तिता यथा प्रपायां सर्वः कोऽपि पानीयमापीय सुहितः स्यात्तथा धर्मरूपायां प्रपायां शास्त्रामृतं निपीय परमानन्दमेदुरोदरा भवन्तीति गाथार्थः ।
सदृष्टान्तं ज्ञानदानमुपदिशन्नाह -
जह केसिणा विइण्णं, पएसिरायस्स णाणदाणमिणं । तह जाणियजिणवयणा, सुयदाणपरा सया होह ॥ १०५ ॥
व्याख्या- यथा - येन प्रकारेण, केशिना - श्रीपार्श्वनाथशिष्यशिष्येण, प्रदेशिराजस्य - श्वेतविकापुरीप्रभोरिदं - ज्ञानदानं, वितीर्णम्, तथा - तेन प्रकारेण ज्ञातजिनवचना-अधिगतसिद्धान्ततत्त्वा अर्थाद् भो भव्याः ! श्रुतदानपराः ! सदा-सर्वदा भवत- जायध्वम् । यतः सर्वेष्वपि दानेषु ज्ञानदानं महीयः यदुक्तंक्षोणिः पुण्याङ्कराणां निबिडतमतमस्तोमतिग्मांसधाम, व्यामोहापोहमन्त्रं त्रिभुवनजनताश्रोत्रपीयूषवृष्टिः । सिद्धीनां केलिशैलः प्रबलकलिमलक्षालनामूलतीर्थम्, तीर्थेशत्वादिहेतुर्जगति विजयते ज्ञानदानं गरीयः ॥ १ ॥ ( स्रग्धरा) इति
गाथार्थः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org