SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ज्ञानदानविषये श्रीकेशिगणधर- प्रदेशिनृपकथा ___३९१ एवंविधे भङ्गे स्तोकमपि भवत्येव, तथा अप्रमादिनि गुरौ अध्येतुमसावधानानां साधूनां तत्प्रेरणत्वान्मनाक्ज्ञानावाप्तिरिति तृतीयभङ्गोपनयः । प्रस्नुता गौर्दोग्धापि दोग्धुमुद्यत एव एवंभूते भङ्गेऽस्ति प्रचुरं क्षीरम् , तथा अप्रमादिगुरुशिष्ययोः संपूर्णज्ञानावाप्तिः स्यादिति चतुर्थभङ्गोपनयः । अत एवाचार्यशिष्ययोरेषोपमा ज्ञेयेति गाथायुगार्थः ।। ज्ञानावाप्तौ किं फलं स्यादित्याहणाणो मुणेइ णाणं णाणं गुणेइ णाणेण कुणइ किच्चाई ।। भवसंसारसमुदं, णाणी णाणेण उत्तरइ ॥ १०२॥ ___ व्याख्या-ज्ञानी ज्ञानं जानाति, ज्ञानं गुणयति-पुनः पुनः परावर्त्तयति, यतो ज्ञानं विना तपश्चरणादिकं व्यर्थम्, यदुक्तं महानिशीथेछट्ठट्ठमदसमदुवालसाइ मासद्धमासखवणाइं । सज्झायज्झाणरहिओ णेगोवास फले लहइ ॥१॥ ज्ञानेन कृत्यान्यावश्यकादीनि करोति। ज्ञानपूर्विकैव क्रिया कर्मक्षयाय स्यात् । उक्तं च-जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तण्णाणी तीहिं गुत्तो खवेइ ऊसासमित्तेण ॥ १॥ [महापच्च० पयन्ना--(१०१)] ज्ञानेन *भवसंसारसंसरणसागरमुत्तरति हेलयेवोल्लङ्घयतीति गाथार्थः ।। श्रुताध्येतॄणामुपष्टम्भे कृते किं भवेदित्याहणाणज्झयणपराणं, साहूणं असणपाणवसणाइं । जो वियरइ जिणसासण-अव्वुछित्ती कया तेण ॥१०३॥ यो विवेकी ज्ञानाध्ययनपराणां साधूनामशनपानवसनानि ** वृत्तिस्त्रुटिता भाति..भवश्चातुर्गतिकरूपः, संसारः तस्मिन्-संसरणम् तदेव, समुद्रः - सागरस्तम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy