________________
३९०
श्रीदानोपदेशमाला (गाथा.९६) प्रमादपरिहाररूपेण सहितः, श्रुतं-सिद्धान्तम् , पठित्वाधीत्य भवजलधिंसंसारसागरम् , तरति-पारं गच्छति, यतो--यस्माद् हेतोः, समये-प्रवचने, कथितं-प्रोक्तमिति गाथार्थः ॥ एतदेव चतुर्भङ्ग्याहणिच्चं गुरु पमाई सीसा य गुरु ण सीसगा तहय । अपमाइ गुरु सीसा पमाइणो दोवि अपमाई ॥ ९९॥
व्याख्या-नित्यं गुरुः प्रमादी पूर्वोक्तप्रमादाष्टकसहितः। न केवलं गुरुः शिष्याश्च प्रमादिन इत्येको भङ्गः। तथा च गुरुः प्रमादी न शिष्याः प्रमादिन इति द्वितीयो भङ्गः । गुरुरप्रमादी शिष्याश्च प्रमादिन इति तृतीयो भङ्गः । द्वावप्यप्रमादिनौ गुरुरप्यप्रमादी शिष्या अप्यप्रमादिन इति चतुर्थो भङ्गः । तत्राद्यौ भङ्गौ प्रथमद्वितीयौ न ज्ञानदौ, तृतीयभङ्गो मनाक् ज्ञानदः, चतुर्थस्तु भङ्गो ज्ञानदायीति गाथार्थः ॥ अस्यामेव चतुर्भङ्ग्यां दृष्टान्तघटनां प्रतिपादयन् गाथायुगेनाहअप्पढ्या य गोणी णेव य दोढा समुज्जओ दोढं । खीरस्स कओ पसवो जइ वि हु बहुखीर आसाय ॥ १००॥ बीए वि णत्थि खीरं थोवंपि हविजए य तइए वि । अत्थि चउत्थे खीरं, एसुवमा आयरियसीसो ॥ १०१॥
व्याख्या-अप्रस्नुता च गौर्नैव च दोग्धा दोग्धं समुद्यतः एवं च सति क्षीरस्य कुतः प्रसवो यद्यपि खु-निश्चितम्, सा च गौर्बहुक्षीरदा । एवं गुरुः प्रमादी शिष्याश्च प्रमादिनः कथं ज्ञानभाजनं भवेयुरित्याद्यभङ्गोपनयः ।
अप्रस्नुता गौर्दोग्धा तु दोग्धुं समुद्यत एवंरूपे भङ्गे नास्ति क्षीरम् , तथा प्रमादिनि गुरौ अध्येतुमुद्यतानामन्तेवासिनां न ज्ञानप्राप्तिरिति द्वितीयभङ्गोपनयः । प्रस्नुता गौर्दोग्धा तु न दोग्धुमुद्यत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org