SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् भोगान् भुक्त्वा ततश्च्युत्वा, विदेहेष्वपरेषु सः । विजये गन्धिलावत्यां, वैताढ्ये धरणीधरे ॥ ७९ ॥ श्रीगन्धाराभिधे देशे, पुरे गन्धसमृद्धके । राज्ञः शतबलाख्यस्य विद्याधरनरेशितुः ॥ ८० ॥ कान्तायां चन्द्रकान्तायां, सुतत्वेनोदपद्यत । तस्याभिधा पितृभ्यां च, व्यधायीति महाबलः ॥ ८१॥ कुलकम् ॥ प्रपाल्यमानो धात्रीभिर्वृद्धिं प्राप महाबलः । महीरुह इवोद्यानपालिकाभि शोक्षितः ॥ ८२ ।। कलावान् कुमुदोल्लासी मृगाङ्क इव राजसूः । अवाप यौवनं नारीचकोरीनेत्रपारणम् ॥ ८३ ॥ कन्यां विनयवत्याह्वां, देहश्रीविजितश्रियम् । समये पितुरादेशादुपायंस्त महाबलः ॥ ८४॥ एकदा खेचरस्वामी सुधीः शतबलो नृपः । संसारासारतां चित्ते, चिन्तयामासिवानिति ॥ ८५ ॥ यौवनं विद्युदुल्लोलमायुः सन्ध्याभ्रविभ्रमम् । तरङ्गतरला लक्ष्म्यः, संगमाः स्वप्नसंनिभाः ॥ ८६॥ भोगा भुजङ्गभोगाभाः स्वान्तं पातकपातुकम् । तथापि मूढाः संसारे, रमन्ते सुखलिप्सया ॥ ८७ ॥ तदद्यैव कुमारेऽस्मिन् क्षोणीरक्षणदक्षणे । साम्राज्यभारमारोप्य, कुर्महे स्वसमीहितम् ॥ ८८॥ विचार्यैवं शतबलः, समाहूय महाबलम् । राज्ये निवेशयामास, महोत्सवपुर:सरम् ॥ ८९ ।। महाबलमहीपालं, सामन्तामात्यपुंगवाः । समागत्य नमश्चक्रुर्नवोदितमृगाङ्कवत् ॥ ९० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy