________________
श्रीदानोपदेशमाला (गा. ६.) सरांस्युल्लासिपद्मानि, सद्मानि धनिनामिव । श्वेतच्छत्रवदम्भोदा अध्वगातपवारिणः ॥ ६७॥ विपक्वाः शालिकेदारा, घनसारा इवाऽवनीम् । वासयन्तश्च यानायोत्कयन्ति पथिकाशयम् ॥ ६८॥ त्रिभिर्विशेषकम् ॥ इदमाकर्ण्य विज्ञातप्रयाणसमयो धनः । प्रस्थानभेरीभाङ्कारैः, पूरयामास रोदसीम् ॥ ६९ ॥ ततश्चचाल सार्थेन सहितः सार्थपार्थिवः । सूरयोऽप्यचलन् साधुवृन्देन परिवारिताः ॥ ७० ॥ लङ्घितायां महाटव्यामनुज्ञाप्य धनं ततः । विजह्वर्गुरवोऽन्यत्राप्रतिबन्धा हि साधवः ॥ ७१ ॥ निरन्तरप्रयाणेन, सार्थवाहः पथि व्रजन् ।। श्रीवसन्तपुरं प्राप, सरित्पूर इवाऽम्बुधिम् ॥ ७२॥ तत्र भाण्डं स विक्रीय, क्रीत्वा च प्रतिभाण्डकम् । पुरं क्षितिप्रतिष्ठाडं, सार्थयुक् पुनराययौ ॥ ७३ ॥ तत्र प्रपाल्य सुचिरं, धर्मं मध्यमभावतः । सर्वायुः पूरयित्वा च, कालधर्मं ययौ धनः ॥ ७४॥ इतश्च जम्बूद्वीपेऽत्र, विदेहक्षेत्रवर्त्तिषु । उत्तरेषु कुरुष्वेष, दानधर्माधुगल्यभूत् ॥ ७५ ॥ स तत्राऽष्टमपर्यन्तभोजी क्रोशत्रयोन्नतः । रसबाणाक्षिसंख्याकैर्युक्तः पृष्ठकरण्डकैः ॥ ७६ ।। पल्योपमत्रयायुष्को, दशभिः कल्पपादपैः । मद्याङ्गाद्यैः कृताभीष्टोऽन्वभूद् वैषयिकं सुखम् ॥ ७७॥ युग्मम् ॥ दिनान्येकोनपञ्चाशत्, प्रपाल्याऽपत्ययुग्मकम् । धनजीवोऽथ सौधर्म, दानधर्मात्सुरोऽजनि ॥ ७८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org