________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् तदा सत्पात्रदानस्य, माहात्म्यात्सार्थपार्थिवः ।। मोक्षलक्ष्मीलताबीजं, बोधिबीजमुपार्जयत् ॥ ५५ ॥ पुनर्धनः शुभाकाङ्क्षी, निशायां पौषधालयम् । गत्वा नत्वा च सूरीन्द्रानुपाविक्षद्विचक्षणः ॥ ५६॥ श्रीधर्मघोषसूरीन्द्रा अपि ज्ञात्वा तदाशयम् । सुधामधुरया वाचा दिदिशुर्देशनामिमाम् ॥ ५७॥ देवोऽष्टादशदोषवर्जितमतिः पूज्यस्त्रिसन्ध्यं त्रिधा, सेव्याः सद्गुरवोऽपरिग्रहयुजः श्रोतव्यमर्हद्वचः॥ येनैतत्सकलं गुणैरविकलं सम्यक्तया पाल्यते, सोऽहंपूर्विकया नरामरशिवश्रीभिः समाश्रीयते ॥५८॥ शार्दूलविक्रीडितम्॥ तदयं सदयैर्धर्मः, स्वाराध्यः पितृमातृवत् । यथा तीर्वा भवाम्भोधिं, प्राप्यते परमं पदम् ॥ ५९॥ देशनान्ते धनः प्राह, स्वामिन् ! धर्मोऽयमुत्तमः । चिरकालान्मयाश्रावि, श्रवणामृतपारणम् ॥ ६०॥ कृतकृत्यमिवात्मानं, मन्वानो मनसा धनः । व्रतिव्रातवृतान् सूरीन्नत्वा निजगृहं ययौ ॥ ६१॥ हर्षप्रकर्षसंपूर्णो, देशनां तां हृदि स्मरन् । धनोऽतिवाहयामास, त्रियामामेकयामवत् ॥ ६२॥ . अथ सुप्तोत्थिते तस्मिन् प्रातर्मङ्गलपाठकः । मेघनिर्घोषगम्भीरध्वनिरित्यपठन्मुदा ॥ ६३॥ घनान्धकारसंभारपूर्णा पद्मापहारिका । व्यवसायहरी पुंसां, निशा प्रावृडिवागमत् ॥ ६४ ॥ प्रभोदयिसहस्रांशुर्नृणां व्यापारकारणम् । प्रभातसमयः प्राप्तः शरत्काल इवाऽधुना ॥ ६५॥ पन्थानः पङ्करहिता, मुनीनामाशया इव । सरितां भग्नमौद्धत्यं, खलमैत्रीव तत्क्षणात् ॥ ६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org