________________
श्रीदानोपदेशमाला (गा. ६.) विकस्वरमुखाम्भोजं, सूरिराजं निरीक्ष्य सः । नत्वोपविश्य चावोचदिति हीनम्रिताननः ॥ ४३॥ कुलकम् ॥ भगवन्तोऽपराधं मे, सहध्वं विहितागसः । उपकारापकारेषु मुनीनां हि मनः समम् ॥ ४४॥ गुरवोऽपि जगुः श्राद्ध! किं किं नोपकृतं त्वया । अस्मान् रक्षयता मार्गे, चौरश्वापदविघ्नतः ॥ ४५ ॥ त्वत्सार्थवासिनोऽस्मभ्यं, वितरन्त्यशनादिकम् । अतो विषादलेशोऽपि, न कर्तव्यस्त्वया हृदि ॥ ४६॥ धनोऽवादीत् स्वप्रमादान्नाथ! हीणोऽस्मि यद्यपि । तथापि प्रेष्यतां साधुद्वन्द्वमाहारहेतवे ॥ ४७॥ दास्ये तदेव साधुभ्यो, यद्यत् कल्प्यं भविष्यति । इत्युदित्वा च नत्वा च, गुरून् धाम जगाम सः ॥ ४८॥ मुनी तदनुगावेव, जग्मतुर्धनमन्दिरम् । तदा दैववशात् तत्र, न बभूवाशनादिकम् ॥ ४९ ।। इतस्ततो धनो भ्राम्यन्नापश्यदशनादिकम् । स्त्यानं च घृतमद्राक्षीत्पुण्यपुञ्जमिवात्मनः ॥ ५० ।। कल्पनीयमिदं साधो! गृहाणानुगृहाण माम् ।। तेनेत्युक्ते मुनिस्तस्य पुरः पात्रमधारयत् ॥ ५१॥ अद्य पुण्यवतां धुर्यो जातोऽहमिति चिन्तयन् । रोमाञ्चाञ्चितगात्रोऽसावृषये प्रददौ घृतम् ॥ ५२ ॥ आनन्दाश्रुजलैः पुण्यतरं सिञ्चन्निवात्मनः । धनो दानावसानेऽथ मुनियुग्ममवन्दत ॥ ५३॥ समीहितार्थदानेन, कल्पवल्लीसमानया । धर्माशिषाभिनन्द्याऽमुं तौ जग्मतुरुंपाश्रयम् ॥ ५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org