________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् सार्थं पदात्पदमपि, प्रेक्ष्यासौ गमनाक्षमम् । तस्यामेव महाटव्यां, दत्त्वा वासानवास्थित ॥ ३१ ॥ केचित्कुटीरकेष्वासन्, पटकुट्यां च केचन । सूरीन्द्रा माणिभद्रेण, दर्शितोपाश्रये स्थिताः ॥ ३२॥ सम्बले त्रुटिते दीर्घकालत्वात्सार्थवासिनः ।। कन्दमूलफलान्यत्तुं, प्रवृत्तास्तापसा इव ॥ ३३ ॥ अन्यदा माणिभद्रेण, धनस्याग्रे निशामुखे । सार्थस्य दौस्थ्ये विज्ञप्ते, विषसाद स सार्थपः ॥ ३४॥ तच्चिन्ताव्याकुलस्यास्य, चरमप्रहरे निशः । कोऽप्येत्य मन्दुरापालः, पपाठेत्यशठाशयः ॥ ३५ ॥ कष्टं गतोऽपि नः स्वामी, प्रत्याशं प्रस्फुरद्यशाः । अहो! स्वाङ्गीकृतं कृत्यं, युगान्तेऽपि न लुम्पति ॥ ३६ ।। सोपालम्भं स तस्येदं, वचः श्रुत्वेत्यचिन्तयत् ।। अत्यर्थं मामके सार्थे, सन्ति के केऽतिदुःखिताः ॥ ३७॥ आ ज्ञातं सन्ति मे सार्थे, केवलप्रासुकाशिनः । श्रीधर्मघोषसूरीन्द्राः, दुःखिताः सपरिच्छदाः ॥ ३८॥ येषां स्वीकृत्य निर्वाहं, ते वाचापि न सत्कृताः । भ्रष्टप्रतिज्ञस्तत्तेषां, दर्शयामि कथं मुखम् ॥ ३९ ॥ तथापि तानहं नत्वा, हन्मि पातकमात्मनः । विमृश्येति धनः सूरिपार्श्वे प्रातरगान्मुदा ॥ ४० ॥ निधानं गुणरत्नानामास्थानं पुण्यभूभृतः । आधानं सर्वसिद्धीनां, निदानं निर्वृतिश्रियः ॥ ४१ ॥ कुर्वद्भिर्वाचनां कैश्चित्तपस्यद्भिश्च कैश्चन । कैश्चिच्छिक्षां प्रयच्छद्भिर्यतिभिः परितो वृतम् ॥ ४२ ॥
१. रत्नानां स्थानं पुण्यस्य. L. P. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org