________________
श्रीदानोपदेशमाला (गा. ६.) तदा स सूदानादिक्षद्, भो! भो! युष्माभिरन्वहम् । संपाद्यमन्नपानाद्यं कृतेऽमीषां महात्मनाम् ॥ १९ ॥ गुरवोऽप्यवदन्नेवं, सार्थवाह! महात्मनाम् । अकृताऽकारितं मुक्त्वा नान्यदन्नादि कल्पते ॥ २० ॥ अथो धनाय केनापि स्थालमाम्रफलैर्भूतम् । उपढौकितमेषोऽपि, सूरिभ्यो दातुमैहत ॥ २१ ॥ गुरवोऽप्यूचिरेऽस्माकं, नाशस्त्रोपहतानि हि । फलान्यमूनि कल्पन्ते, भोक्तुं मुक्तिसुखार्थिनाम् ॥२२॥ साश्चर्यः सार्थपोऽवादीत्, काप्येषां दुष्करक्रिया । यन्नैषा क्षणमप्यन्यैर्धर्तुं चित्तेऽपि शक्यते ॥२३॥ यत्कल्पनीयमन्नादि, तद्वो दास्ये प्रसीदत । आयात च मया साकमित्युक्त्वा प्रेषयद् गुरून् ॥२४॥ ततः सार्थपतिः सार्थं, प्रगुणीकृत्य कृत्यवित् । चचाल चञ्चलैरश्ववारवारैर्विराजितः ॥ २५ ॥ वाञ्छितार्थप्रदैः कल्पपादपैरिव जङ्गमैः ।। साधुभिः सहिताः सार्थे, सूरयोऽपि प्रतस्थिरे ॥२६॥ उद्भटैः सुभटैर्युक्तः, सार्थस्याग्रेसरो धनः । तत्सखा माणिभद्रस्तु, भद्रार्थं पृष्ठतः स्थितः ॥ २७॥ प्रतिप्रातः प्रयाणेन, सार्थस्य व्रजतः सतः । तापोपशमनायेव, वर्षाकालः समागमत् ॥ २८॥ विधुदुत्पातकरणं, कुर्वाणः शब्दपूर्वकम् । ववर्ष धारासारोधैर्धारवीर इवाम्बुदः ॥ २९ ॥ तदा कूलंकषाः कूलमूलपाटनलम्पटाः । मार्गाश्च कर्दमाकीर्णास्तूर्णमर्णश्चयैः कृताः ॥ ३० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org