________________
सत्पात्रदानफलम् तत्र सत्रं कलौघानां, धर्मकर्मणि कर्मठः । प्रसन्नचन्द्रराजेन्द्रः, प्राज्यराज्यमपालयत् ॥ ६॥ तस्मिंश्चासीद् धनो नाम, सार्थवाहो महापतिः । यः स्थानं श्रीविलासानां, रत्नानामिव रोहणः ॥ ७॥ सर्वसाधारणा तस्य, संपत् संतापनाशिनी । सुरस्रोतस्विनीवारां, प्रवेणीव व्यराजत ॥ ८॥ यानानां सेवकानां च, सुहृदां संपदामपि । कोऽपि न प्राप्तवान् संख्यां, तस्याम्भोधेस्तरङ्गवत् ॥ ९॥ गृहीतभाण्डः सोऽन्येद्युः, स्वपुराद् गन्तुमैहत । श्रीवसन्तपुरं तिग्मरश्मिर्मेषाद् वृषं यथा ॥ १० ॥ सर्वेषामपि लोकानां, करिष्यामि समीहितम् । एवमुद्घोषणां सार्थपार्थिवोऽकारयत्तराम् ॥ ११॥ शुभे दिने शुभे लग्ने, कुलस्त्रीकृतमङ्गलः । सार्थेशो रथमास्थाय, प्रतस्थे नगराद् बहिः ॥ १२ ॥ प्रयाणढक्कानिस्वानैराकारणनरैरिव । वसन्तपुरमेतारो, लोकास्तत्र समैयरुः ॥ १३॥ रथैर्वृषैः खरैरुष्ट्ररश्वैरश्वतरैरपि । सार्थपोऽमण्डयत्सार्थं, पुष्पैर्मधुरिव द्रुमम् ॥ १४ ॥ अस्मिन्नवसरे धर्मघोषाख्याः सूरिशेखराः । सार्थवाहमुपाजग्मुर्विनयं सद्गुणा इव ॥ १५ ॥ तान्निरीक्ष्य धनो नत्वा, निवेश्य च वरासने । विहिताञ्जलिरप्राक्षीत्, समागमनकारणम् ॥ १६॥ सूरयस्तमभाषन्त, सार्थे सार्थेश! तावके । वसन्तपुरमेतारस्तारा इव निशाकरम् ॥ १७॥ धन्यंमन्यो धनोऽप्याह, सूरीन् दूरीकृतागसः । पवित्रयत मत्सार्थं, भगवन् ! स्वांहिरेणुभिः ॥ १८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org