SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीदानोपदेशमाला (गा. ६.) व्याख्या-श्रीऋषभस्वामिना-प्रथमतीर्थंकरेण, धनभवे-धनसार्थवाहजन्मनि, मुनिभ्यः-साधुभ्यो, घृतदानं दत्तं-वितीर्णं नन्वत्र चतुर्थ्याः स्थाने कथं षष्ठी? प्राकृतत्वात्, यदुक्तं-बहुवयणेण दुवयणं छट्ठिविभत्तीइ भणइ चउत्थी। जह हत्था तह पाया नमुत्थु देवाहिदेवाणं ॥१॥ तस्यैव सत्पात्रदानस्य प्रभावान्माहात्म्याद् बोधिवरबीजम् 'औपशमिकं सम्यक्त्वम् , समर्जितं-लब्धम् , यस्मादनादिभवपरिभ्रमणं कुर्वाणः प्राणी कर्मग्रन्थिमासाद्य यथाप्रवृत्तकरणान्तरकरणापूर्वकरणपुरःसरमान्तौ त्तिकमौपशमिकं सम्यक्त्वमर्जयति। तस्मिंश्च प्राप्तेऽपार्धपुद्गल एव संसारसरणम्, यदागमः अंतोमुहुत्तमित्तंपि, फासियं हुज जेहिं सम्मत्तं । तेसिं अवड्डपुग्गल, परियट्टो चेव संसारो ॥१॥ ___ (नवतत्त्वप्रकरणम्-५३) बोधिशब्दपुरतो वरबीजग्रहणमिति ज्ञापयति, यथा प्रशस्यबीजादन्यान्यबीजोत्पादः स्यात्, तथास्माद् बोधिवरबीजादपि सम्यक्त्वानां लाभ इति गाथार्थः । भावार्थस्तु कथानकगम्यस्तच्चेदम्, तथाहिअस्ति संख्यातिगाम्भोधिद्वीपानां वलयैर्वृतः। जम्बूद्वीपाभिधो द्वीपो लक्षयोजनविस्तृतः ॥ १॥ चतुराशास्थितपरद्वीपश्रीविजिगीषया । यो बिभर्ति द्विचन्द्रार्कव्याजाच्चक्रचतुष्टयम् ॥ २ ॥ तदन्तर्भद्रशालादिवनराजिविराजितः । उच्चार्हच्चैत्यसश्रीको भाति मेरुमहीधरः ॥ ३ ॥ तस्मात्पश्चिमदिग्भागविदेहेषु महर्द्धिषु । क्षितिप्रतिष्ठितं नाम पुरमस्ति मनोहरम् ॥ ४॥ यत्र प्रासादशृङ्गेषु कलशा मणिनिर्मिताः । प्रदीपकलिकायन्ते, निशि तामसनाशनात् ॥ ५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy