SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानफलम् पञ्चमं च ' णाणदाणंति' विनयावनतविनेयजनस्य द्वादशाङ्ग्यादिसूत्रार्थाध्यापनरूपं यद्दानं तज्ज्ञानदानम्, यतस्तस्यैव सर्वभावाविर्भावकत्वात्, यदागमः णाणं पयासगं सोहगो, तवो संजमो य गुत्तिकरो । तिहंपि समाजोगे, मुक्खो जिणसासणे भणिओ ॥ १ ॥ (उपदेशसारे. ३१-३२) चः - समुच्चये इत्युल्लिङ्गनागाथासमासार्थः । व्यासार्थस्तु प्रत्यधिकारं प्रकटयिष्यत इति गाथार्थः ॥ प्रथमं तावत्सत्पात्रदानं प्रचिकटयिषुराहतेसिं मझे पढमं सुपत्तदाणं मुणीहिं परिकहियं । संसारजलहिणिवडिरणराणमुत्तरणे तरणिसमं ॥ ५ ॥ " , व्याख्या- तेषां पञ्चानामपि दानानां मध्ये 'प्रथमं' सत्पात्रदानं मुनिभिस्त्रिकालवेदिभिस्तीर्थंकरगणधरदेवैः परि-समन्तात् कथितं - प्रतिपादितम् तस्यैव निरुपचरितं विशेषणमाह, संसारित्ति संसरणंसंसारश्चातुर्गतिकभवभ्रमणम्, स एव जलधिर्विपुलत्वात् दुर्लङ्घत्वाच्च, समुद्रस्तत्र शुभाशुभकर्मपारतन्त्र्येण नितरां पततां - बुडताम्, नराणांप्राणिनामुत्तरणे- तारणविषये, तरणिसमं प्रवहणप्रायम् । यतः कृतसत्पात्रदानाः सुखेनैव संसारसागरं तरन्तीति गाथार्थः ॥ - तस्मात्सत्पात्रदानात् केनापि किं फलमवाप्तमित्याहे सिरिरिसहसामिणा धणभवंमि दिण्णं मुणीण घयदाणं । तस्सेव पभावाओ समज्जियं बोहिवरबीयं ॥ ६ ॥ १. साविया रेवईए दिण्णं भेसजमेव वीररुजा । तस्सेव पभावाओ समज्जियं तित्थयरगोत्तं ॥ १ ॥ V. संज्ञक - प्रतौ एवं टिप्पनकं दृष्टम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy